एताञ्जनपदांश्चक्षुः प्लावयित्वोदधिं गता दरदोर्जगुडांश्चैव गान्धारानौरसान्कुहून्
शिवपौरानिन्द्रमरून् वसतीन्समतेजसम् सैन्धवानुर्वसान्बर्बान् कुपथान्भीमरोमकान्
शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते गन्धर्वान्किन्नरान्यक्षान् रक्षोविद्याधरोरगान्
कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान् किरातांश्च पुलिन्दांश्च कुरून्वै भारतानपि
पाञ्चालान्कौशिकान्मत्स्यान् मागधाङ्गांस्तथैव च ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च
एताञ्जनपदानार्यान् गङ्गा भावयते शुभा ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्
ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखी ययौ प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः
धीवरानृषिकांश्चैव तथा नलिमुखानपि केकरानेककर्णांश्च किरातानपि चैव हि
कालञ्जरान्विकर्णांश्च कुशिकान्स्वर्गभौमकान् सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः
ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ कुपथान्प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि
तथा खरपथान्देशान् वेत्रशङ्कुपथानपि मध्येनोज्जानकमरून् कुथप्रावरणान्ययौ
इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम् ततस्तु पावनी प्रायात् प्राचीमाशां जवेन तु
तोमरान्प्लावयती च हंसमार्गान्समूहकान् पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम् कर्णप्रावरणान्प्राप्य गता साश्वमुखानपि
सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि शैमिमण्डलकोष्ठं तु सा प्रविष्टा महत्सरः
तासां नद्युपनद्यो ऽन्याः शतशो ऽथ सहस्रशः उपगच्छन्ति ता नद्यो यतो वर्षति वासवः
तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम् हिरण्यशृङ्गो वसति विद्वान्कौबेरको वशी
यज्ञादपेतः सुमहान् अमितौजाः सुविक्रमः तत्रागस्त्यैः परिवृता विद्वभिर्द्ब्रह्मराक्षसैः
कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम्
परस्परेण द्विगुणा धर्मतः कामतो ऽर्थतः हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम्
सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान् जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्
पयोदस्तु ह्रदो नीलः स शुभ्रः पुण्डरीकवान् पुण्डरीकात्पयोदाच्च तस्माद् द्वे सम्प्रसूयताम्
सरसस्तु सरस्त्वेतत् स्मृतमुत्तरमानसम् मृग्या च मृगकान्ता च तस्माद् द्वे सम्प्रसूयताम्
ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः नाम्ना ते वै जया नाम द्वादशोदधिसंनिभाः
तेभ्यः शान्ती च मध्वी च द्वे नद्यौ सम्प्रसूयताम् किम्पुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः बलाहकश्च ऋषभो चक्रो मैनाक एव च
विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः
उद्गायता उदीच्यां तु अवगाढा महोदधिम् चक्रो बधिरकश्चैव तथा नारदपर्वतः
प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम् जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः