रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः गङ्गार्थे स तु राजर्षिर् उवास बहुलाः समाः
दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता
सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते यूपा मणिमयास्तत्र विमानाश्च हिरण्मयाः
तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह दिव्यश्छायापथस् तत्र नक्षत्राणां तु मण्डलम्
दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता
भवोत्तमाङ्गे पतिता संरुद्धा योगमायया तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि
कृतं तु तैर्बहुसरस् ततो बिन्दुसरः स्मृतम् ततस्तस्या निरुद्धाया भवेन सहसा रुषा
ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम् भित्त्वा विशामि पातालं स्रोतसा गृह्य शंकरम्
अथावलेपं तं ज्ञात्वा तस्याः क्रुद्धस्तु शंकरः तिरोभावयितुं बुद्धिर् आसीदङ्गेषु तां नदीम्
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः धमनीसंततं क्षीणं क्षुधाव्याकुलितेन्द्रियम्
अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु बुद्ध्वाऽस्य वरदानं तु ततः कोपं न्ययच्छत
ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम् ततो विसर्जयामास संरुद्धां स्वेन तेजसा
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ततो विसर्जयामास सप्त स्रोतांसि गङ्गया
त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् तस्माद्भागीरथी सा वै प्रविष्टा दक्षिणोदधिम्
सप्त चैताः प्लावयन्ति वर्षं तु हिमसाह्वयम् प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः
तान्देशान्प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः सशैलान्कुकुरान्रौध्रान् बर्बरान्यवनान्खसान्
पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान् कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम्
अथ वीरमरूंश्चैव कालिकांश्चैव शूलिकान् तुकरान्बर्बराकारान् पह्लवान्पारदाञ्छकान्
एताञ्जनपदांश्चक्षुः प्लावयित्वोदधिं गता दरदोर्जगुडांश्चैव गान्धारानौरसान्कुहून्
शिवपौरानिन्द्रमरून् वसतीन्समतेजसम् सैन्धवानुर्वसान्बर्बान् कुपथान्भीमरोमकान्
शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते गन्धर्वान्किन्नरान्यक्षान् रक्षोविद्याधरोरगान्
कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान् किरातांश्च पुलिन्दांश्च कुरून्वै भारतानपि
पाञ्चालान्कौशिकान्मत्स्यान् मागधाङ्गांस्तथैव च ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च
एताञ्जनपदानार्यान् गङ्गा भावयते शुभा ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्
ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखी ययौ प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः
धीवरानृषिकांश्चैव तथा नलिमुखानपि केकरानेककर्णांश्च किरातानपि चैव हि
कालञ्जरान्विकर्णांश्च कुशिकान्स्वर्गभौमकान् सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः
ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ कुपथान्प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि