इयं विहारवेला ते ह्य् अतिक्रामति साम्प्रतम् एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना
इयं सायन्तनी वेला विहारस्येह वर्तते कृत्वोपलेपनं पुष्पैर् अलंकुरु गृहं मम
सा त्व् अब्रवीद् विरमृताहं सर्वमेतत्तपोधन आत्मानं त्वां च भर्तारं कुलं च वद मे ऽनघ
बुधः प्रोवाच तां तन्वीम् इला त्वं वरवर्णिनी अहं च कामुको नाम बहुविद्यो बुधः स्मृतः
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम्
रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम् इला कृतार्थमात्मानं मेने तद्भवनस्थिता
अहो वृत्तमहो रूपम् अहो धनमहो कुलम् मम चास्य च मे भर्तुर् अहो लावण्यम् उत्तमम्
रेमे च सा तेन समम् अतिकालमिला ततः सर्वभोगमये गेहे यथेन्द्रभवने तथा
अथान्विषन्तो राजानं भ्रातरस् तस्य मानवाः इक्ष्वाकुप्रमुखा जग्मुस् तदा शरवणान्तिकम्
ततस्ते ददृशुः सर्वे वडबाम् अग्रतः स्थिताम् रत्नपर्याणकिरणदीप्तकायाम् अनुत्तमाम्
पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयम् आगताः अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः
अगमद् वडबारूपम् उत्तमं केन हेतुना ततस् तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम्
किमित्येतदभूच्चित्रं वद योगविदां वर वसिष्ठश्चाब्रवीत् सर्वं दृष्ट्वा तद्ध्यानचक्षुषा
समयः शम्भुदयिताकृतः शरवणे पुरा यः पुमान्प्रविशेद् अत्र स नारीत्वमवाप्स्यति
अयमश्वो ऽपि नारीत्वम् अगाद्राज्ञा सहैव तु पुनः पुरुषतामेति यथासौ धनदोपमः
तथैव यत्नः कर्तव्यश् चाराध्यैव पिनाकिनम् ततस्ते मानवा जग्मुर् यत्र देवो महेश्वरः
तुष्टुवुर् विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ ताव् ऊचतुर् अलङ्घ्यो ऽयं समयः किंतु साम्प्रतम्
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम्
तथेत्युक्तास्ततस्ते तु जग्मुर् वैवस्वतात्मजाः इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषो ऽभवत्
मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः बुधस्य भवने तिष्ठन् निलो गर्भधरो ऽभवत्
अजीजनत्पुत्रमेकम् अनेकगुणसंयुतम् बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकम् अगमत्ततः
इलस्य नाम्ना तद्वर्षम् इलावृतम् अभूत्तदा सोमार्कवंशयोर् आदाव् इलो ऽभून्मनुनन्दनः
एवं पुरूरवाः पुंसोर् अभवद् वंशवर्धनः इक्ष्वाकुर् अर्कवंशस्य तथैवोक्तस्तपोधनाः
इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम्
उत्कलो वै गहस् तद्वद् धरिताश्वश् च वीर्यवान् उत्कलस्योत्कला नाम गयस्य तु गया मता
हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह प्रतिष्ठाने ऽभिषिच्याथ स पुरूरवसं सुतम्
जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम् इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्
नरिष्यन्तस्य पुत्रो ऽभूच् छुचो नाम महाबलः नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम्
धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्यवान् आनर्तो नाम शर्यातेः सुकन्या चैव दारिका
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान् आनर्तो नाभ देशो ऽभून् नगरी च कुशस्थली