सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति चन्द्रप्रभो नाम गिरिः यः शुभ्रो रत्नसंनिभः
तत्समीपे सरो दिव्यम् अच्छोदं नाम विश्रुतम् तस्मात्प्रभवते दिव्या नदी ह्यच्छोदका शुभा
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुभा
महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम् कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम्
मनःशिलामयं दिव्यं सुवेलं पर्वतं प्रति लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान्
तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः तस्मात्प्रभवते पुण्यो लौहित्यश्च नदो महान्
दिव्यारण्यं विशोकं च तस्य तीरे महद्वनम् तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी
सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः कैलासात्पश्चिमोदीच्यां ककुद्मानौषधीगिरिः
ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः तदञ्जनं त्रैककुदं शैलं त्रिककुदं प्रति
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम्
तस्मात्प्रभवते पुण्या सरयूर्लोकपावनी यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम्
कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी ब्रह्मधाता निवसति राक्षसो ऽनन्तविक्रमः
कैलासात्पश्चिमामाशां दिव्यः सर्वौषधिगिरिः वरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः
भवस्य दयितः श्रीमान् पर्वतो हैमसंनिभः शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः
शतसङ्ख्यैस् तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् शृङ्गवान्सुमहादिव्यो दुर्गः शैलो महाचितः
तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः तस्य पादात्प्रभवति शैलोदं नाम तत्सरः
तस्मात्प्रभवते पुण्या नदी शैलोदका शुभा सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमोदधिम्
अस्त्युत्तरेण कैलासाच् छिवः सर्वौषधो गिरिः गौरं तु पर्वतश्रेष्ठं हरितालमयं प्रति
हिरण्यशृङ्गः सुमहादिव्यौषधिमयो गिरिः तस्य पादे महद्दिव्यं सरः काञ्चनवालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः गङ्गार्थे स तु राजर्षिर् उवास बहुलाः समाः
दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता
सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते यूपा मणिमयास्तत्र विमानाश्च हिरण्मयाः
तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह दिव्यश्छायापथस् तत्र नक्षत्राणां तु मण्डलम्
दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता
भवोत्तमाङ्गे पतिता संरुद्धा योगमायया तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि
कृतं तु तैर्बहुसरस् ततो बिन्दुसरः स्मृतम् ततस्तस्या निरुद्धाया भवेन सहसा रुषा
ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम् भित्त्वा विशामि पातालं स्रोतसा गृह्य शंकरम्
अथावलेपं तं ज्ञात्वा तस्याः क्रुद्धस्तु शंकरः तिरोभावयितुं बुद्धिर् आसीदङ्गेषु तां नदीम्
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः धमनीसंततं क्षीणं क्षुधाव्याकुलितेन्द्रियम्