स्वप्नमेवं स राजर्षिर् दृष्ट्वा देवेन्द्रविक्रमः प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः
कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम्
स्वप्नं तु देवदेवस्य न्यवेदयत धार्मिकः ततः शुश्राव वचनं देवतानां समीरितम्
एवमेतन्महीपाल नात्र कार्या विचारणा एवं प्रसादं सम्प्राप्य देवदेवाज्जनार्दनात्
कृतदेवार्चनो राजा तथा हुतहुताशनः सर्वान्कामानवाप्तो ऽसौ वरदानेन केशवात्
तस्याश्रमस्योत्तरतस् त्रिपुरारिनिषेवितः नानारत्नमयैः शृङ्गैः कल्पद्रुमसमन्वितैः
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः
अप्सरो ऽनुगुप्तो राजा मोदते ह्यलकाधिपः कैलासपादसम्भूतं पुण्यं शीतजलं शुभम्
मन्दोदकं नाम सरः पयस्तु दधिसंनिभम् तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा
दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् प्रागुत्तरेण कैलासाद् दिव्यं सौगन्धिकं गिरिम्
सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति चन्द्रप्रभो नाम गिरिः यः शुभ्रो रत्नसंनिभः
तत्समीपे सरो दिव्यम् अच्छोदं नाम विश्रुतम् तस्मात्प्रभवते दिव्या नदी ह्यच्छोदका शुभा
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुभा
महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम् कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम्
मनःशिलामयं दिव्यं सुवेलं पर्वतं प्रति लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान्
तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः तस्मात्प्रभवते पुण्यो लौहित्यश्च नदो महान्
दिव्यारण्यं विशोकं च तस्य तीरे महद्वनम् तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी
सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः कैलासात्पश्चिमोदीच्यां ककुद्मानौषधीगिरिः
ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः तदञ्जनं त्रैककुदं शैलं त्रिककुदं प्रति
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम्
तस्मात्प्रभवते पुण्या सरयूर्लोकपावनी यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम्
कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी ब्रह्मधाता निवसति राक्षसो ऽनन्तविक्रमः
कैलासात्पश्चिमामाशां दिव्यः सर्वौषधिगिरिः वरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः
भवस्य दयितः श्रीमान् पर्वतो हैमसंनिभः शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः
शतसङ्ख्यैस् तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् शृङ्गवान्सुमहादिव्यो दुर्गः शैलो महाचितः
तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः तस्य पादात्प्रभवति शैलोदं नाम तत्सरः
तस्मात्प्रभवते पुण्या नदी शैलोदका शुभा सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमोदधिम्
अस्त्युत्तरेण कैलासाच् छिवः सर्वौषधो गिरिः गौरं तु पर्वतश्रेष्ठं हरितालमयं प्रति
हिरण्यशृङ्गः सुमहादिव्यौषधिमयो गिरिः तस्य पादे महद्दिव्यं सरः काञ्चनवालुकम्