कान्तं च ताडयामास जातखेदा वराङ्गना अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा
कान्ताम्बुताडनाकृष्टकेशपाशनिबन्धना केशाकुलमुखी भाति मधुपैरिव पद्मिनी
स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने छन्ना काचिच् चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः
स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम् रमणालिङ्गनं चक्रे मनो ऽभिलषितं चिरम्
जलार्द्रवसनं सूक्ष्मम् अङ्गलीनं शुचिस्मिता धारयन्ती जनं चक्रे काचित् तत्र समन्मथम्
कण्ठमाल्यगुणैः काचित् कान्तेन कृष्यताम्भसि त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम्
काचिद्भुग्ना सखीदत्तजानुदेशे नखक्षता संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम्
काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा
कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् रतिक्रीडितकान्तेव रराज तत्सरोदकम्
सुस्नातदेवगन्धर्वदेवरामागणेन च पूज्यमानं च ददृशे देवदेवं जनार्दनम्
क्वचिच् च ददृशे राजा लतागृहगताः स्त्रियः मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः
काचिद् आदर्शनकरा व्यग्रा दूतीमुखोद्गतम् शृण्वती कान्तवचनम् अधिका तु तथा बभौ
काचित् सत्वरिता दूत्या भूषणानां विपर्ययम् कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना
वायुनुन्नातिसुरभिकुसुमोत्करमण्डिते काचित्पिबन्ती ददृशे मैरेयं नीलशाद्वले
पाययामास रमणं स्वयं काचिद्वराङ्गना काचित्पपौ वरारोहा कान्तपाणिसमर्पितम्
काचित्स्वनेत्रचपलनीलोत्पलयुतं पयः पीत्वा पप्रच्छ रमणं क्व गते ते ममोत्पले
त्वयैव पीतौ तौ नूनम् इत्युक्ता रमणेन सा तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम्
काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् सविशेषरसं पानं पपौ मन्मथवर्धनम्
आपानगोष्ठीषु तथा तासां स नरपुंगवः शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम्
प्रदोषसमये ताश्च देवदेवं जनार्दनम् राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः
याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् आवसन्संयुताः कान्तैः परर्द्धिरचितां गुहाम्
नानागन्धान्वितलतां नानागन्धसुगन्धिनीम् नानाविचित्रशयनां कुसुमोत्करमण्डिताम्
एवम् अप्सरसां पश्यन् क्रीडितानि स पर्वते तपस्तेपे महाराजन् केशवार्पितमानसः
तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरसां गणाः राजन्स्वर्गोपमं देशम् इमं प्राप्तो ऽस्यरिंदम
वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः वरं वितरताद्यैव प्रसादं मधुसूदनात्
एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः तत्रोवास सुखी मासं पूजयानो जनार्दनम्
प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः तुतोष स जनो राज्ञस् तस्यालौल्येन कर्मणा
फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः तस्यैव देवदेवस्य श्रुतवान्गदितं शुभम्
रात्र्यामस्यां व्यतीतायाम् अत्रिणा त्वं समेष्यसि तेन राजन्समागम्य कृतकृत्यो भविष्यसि