पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति
काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता
काचित्कमलगन्धाभा निःश्वासपवनाहृतैः मधुपैराकुलमुखी कान्तेन परिमोचिता
मकरन्दसभाक्रान्तनयना काचिदङ्गना कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा
काचिद् उच्चीय पुष्पाणि ददौ कान्तस्य भामिनी कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा
उच्चीय स्वयम् उद्ग्रथ्य कान्तेन कृतशेखरा कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी
अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता काचिदेवं रहो नीता रमणेन रिरंसुना
कान्तसंनामितलता कुसुमानि विचिन्वती सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्
काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक् क्रीडमानास्तु गन्धर्वैर् देवरामा मनोरमाः
काचिद् आताडयत् कान्तम् उदकेन शुचिस्मिता ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ
कान्तं च ताडयामास जातखेदा वराङ्गना अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा
कान्ताम्बुताडनाकृष्टकेशपाशनिबन्धना केशाकुलमुखी भाति मधुपैरिव पद्मिनी
स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने छन्ना काचिच् चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः
स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम् रमणालिङ्गनं चक्रे मनो ऽभिलषितं चिरम्
जलार्द्रवसनं सूक्ष्मम् अङ्गलीनं शुचिस्मिता धारयन्ती जनं चक्रे काचित् तत्र समन्मथम्
कण्ठमाल्यगुणैः काचित् कान्तेन कृष्यताम्भसि त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम्
काचिद्भुग्ना सखीदत्तजानुदेशे नखक्षता संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम्
काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा
कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् रतिक्रीडितकान्तेव रराज तत्सरोदकम्
सुस्नातदेवगन्धर्वदेवरामागणेन च पूज्यमानं च ददृशे देवदेवं जनार्दनम्
क्वचिच् च ददृशे राजा लतागृहगताः स्त्रियः मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः
काचिद् आदर्शनकरा व्यग्रा दूतीमुखोद्गतम् शृण्वती कान्तवचनम् अधिका तु तथा बभौ
काचित् सत्वरिता दूत्या भूषणानां विपर्ययम् कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना
वायुनुन्नातिसुरभिकुसुमोत्करमण्डिते काचित्पिबन्ती ददृशे मैरेयं नीलशाद्वले
पाययामास रमणं स्वयं काचिद्वराङ्गना काचित्पपौ वरारोहा कान्तपाणिसमर्पितम्
काचित्स्वनेत्रचपलनीलोत्पलयुतं पयः पीत्वा पप्रच्छ रमणं क्व गते ते ममोत्पले
त्वयैव पीतौ तौ नूनम् इत्युक्ता रमणेन सा तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम्
काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् सविशेषरसं पानं पपौ मन्मथवर्धनम्
आपानगोष्ठीषु तथा तासां स नरपुंगवः शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम्
प्रदोषसमये ताश्च देवदेवं जनार्दनम् राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः