शोभितोत्तमपार्श्वं तं देवमुत्पलशीर्षकम् ततः सम्मुखम् उद्वीक्ष्य ववन्दे स नराधिपः
जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम्
प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे पुनः
बिलाद्बहिर्गुहां कांचिद् आश्रित्य सुमनोहराम् तपश्चकार तत्रैव पूजयन्मधुसूदनम्
नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः नित्यं त्रिषवणस्नायी वह्निपूजापरायणः
देववापीजलैः कुर्वन् सततं प्राणधारणम् सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः
अनास्तृतगुहाशायी कालं नयति पार्थिवः त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः न तस्य ग्लानिमायाति शरीरं च तदद्भुतम्
एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव तत्राश्रमे कालमुवास कंचित् स्वर्गोपमे दुःखम् अविन्दमानः
स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः क्रीडाविहारं गन्धर्वैः पश्यन्नप्सरसां सह
कृत्वा पुष्पोच्चयं भूरि ग्रन्थयित्वा तथा स्रजः अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ
पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति
काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता
काचित्कमलगन्धाभा निःश्वासपवनाहृतैः मधुपैराकुलमुखी कान्तेन परिमोचिता
मकरन्दसभाक्रान्तनयना काचिदङ्गना कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा
काचिद् उच्चीय पुष्पाणि ददौ कान्तस्य भामिनी कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा
उच्चीय स्वयम् उद्ग्रथ्य कान्तेन कृतशेखरा कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी
अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता काचिदेवं रहो नीता रमणेन रिरंसुना
कान्तसंनामितलता कुसुमानि विचिन्वती सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्
काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक् क्रीडमानास्तु गन्धर्वैर् देवरामा मनोरमाः
काचिद् आताडयत् कान्तम् उदकेन शुचिस्मिता ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ
कान्तं च ताडयामास जातखेदा वराङ्गना अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा
कान्ताम्बुताडनाकृष्टकेशपाशनिबन्धना केशाकुलमुखी भाति मधुपैरिव पद्मिनी
स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने छन्ना काचिच् चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः
स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम् रमणालिङ्गनं चक्रे मनो ऽभिलषितं चिरम्
जलार्द्रवसनं सूक्ष्मम् अङ्गलीनं शुचिस्मिता धारयन्ती जनं चक्रे काचित् तत्र समन्मथम्
कण्ठमाल्यगुणैः काचित् कान्तेन कृष्यताम्भसि त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम्
काचिद्भुग्ना सखीदत्तजानुदेशे नखक्षता संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम्
काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा
कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् रतिक्रीडितकान्तेव रराज तत्सरोदकम्
सुस्नातदेवगन्धर्वदेवरामागणेन च पूज्यमानं च ददृशे देवदेवं जनार्दनम्