प्रासादे तत्र भगवान् देवदेवो जनार्दनः भोगिभोगावलीसुप्तः सर्वालंकारभूषितः
जानुनाकुञ्चितस्त्वेको देवदेवस्य चक्रिणः फणीन्द्रसंनिविष्टो ऽङ्घ्रिर् द्वितीयश्च तथानघ
लक्षयुत्सङ्गगतो ऽङ्घ्रिस्तु शेषभोगप्रशायिनः फणीन्द्रभोगसंन्यस्तबाहुः केयूरभूषणः
अङ्गुलीपृष्ठविन्यस्तदेवशीर्षधरं भुजम् एकं वै देवदेवस्य द्वितीयं तु प्रसारितम्
समाकुञ्चितजानुस्थमणिबन्धेन शोभितम् किंचिदाकुञ्चितं चैव नाभिदेशकरस्थितम्
तृतीयं तु भुजं तस्य चतुर्थं तु तथा शृणु आत्तसंतानकुसुमं घ्राणदेशानुसर्पिणम्
लक्ष्म्या संवाह्यमानाङ्घ्रिः पद्मपत्त्रनिभैः करैः संतानमालामुकुटं हारकेयूरभूषितम्
भूषितं च तथा देवम् अङ्गदैरङ्गुलीयकैः फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलम्
अज्ञातवस्तुचरितं प्रतिष्ठितम् अथात्रिणा सिद्धानुपूज्यं सततं संतानकुसुमार्चितम्
दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम् सुरसैः सुफलैर्हृद्यैः सिद्धैरुपहृतैः सदा
शोभितोत्तमपार्श्वं तं देवमुत्पलशीर्षकम् ततः सम्मुखम् उद्वीक्ष्य ववन्दे स नराधिपः
जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम्
प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे पुनः
बिलाद्बहिर्गुहां कांचिद् आश्रित्य सुमनोहराम् तपश्चकार तत्रैव पूजयन्मधुसूदनम्
नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः नित्यं त्रिषवणस्नायी वह्निपूजापरायणः
देववापीजलैः कुर्वन् सततं प्राणधारणम् सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः
अनास्तृतगुहाशायी कालं नयति पार्थिवः त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः न तस्य ग्लानिमायाति शरीरं च तदद्भुतम्
एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव तत्राश्रमे कालमुवास कंचित् स्वर्गोपमे दुःखम् अविन्दमानः
स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः क्रीडाविहारं गन्धर्वैः पश्यन्नप्सरसां सह
कृत्वा पुष्पोच्चयं भूरि ग्रन्थयित्वा तथा स्रजः अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ
पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति
काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता
काचित्कमलगन्धाभा निःश्वासपवनाहृतैः मधुपैराकुलमुखी कान्तेन परिमोचिता
मकरन्दसभाक्रान्तनयना काचिदङ्गना कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा
काचिद् उच्चीय पुष्पाणि ददौ कान्तस्य भामिनी कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा
उच्चीय स्वयम् उद्ग्रथ्य कान्तेन कृतशेखरा कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी
अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता काचिदेवं रहो नीता रमणेन रिरंसुना
कान्तसंनामितलता कुसुमानि विचिन्वती सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्
काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक् क्रीडमानास्तु गन्धर्वैर् देवरामा मनोरमाः
काचिद् आताडयत् कान्तम् उदकेन शुचिस्मिता ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ