उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा तनुलोमा सुदशना मृदुगम्भीरभाषिणी
श्यामगौरेण वर्णेन हंसवारणगामिनी कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा
भ्रमन्ती च वने तस्मिंश् चिन्तयामास भामिनी को मे पिताथवा भ्राता का मे माता भवेदिह
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना
इला रूपसमाक्षिप्तमनसा वरवर्णिनी बुधस्तदाप्तये यत्नम् अकरोत्कामपीडितः
विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः वेणुदण्डकृतानेकपवित्रकगणत्रिकः
द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः
किलान्विषन् वने तस्मिन् नाजुहाव स तामिलाम् बहिर् वनस्यान्तरितः किल पादपमण्डले
ससंभ्रममकस्मात्तां सोपालम्भमिवावदत् त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम
इयं विहारवेला ते ह्य् अतिक्रामति साम्प्रतम् एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना
इयं सायन्तनी वेला विहारस्येह वर्तते कृत्वोपलेपनं पुष्पैर् अलंकुरु गृहं मम
सा त्व् अब्रवीद् विरमृताहं सर्वमेतत्तपोधन आत्मानं त्वां च भर्तारं कुलं च वद मे ऽनघ
बुधः प्रोवाच तां तन्वीम् इला त्वं वरवर्णिनी अहं च कामुको नाम बहुविद्यो बुधः स्मृतः
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम्
रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम् इला कृतार्थमात्मानं मेने तद्भवनस्थिता
अहो वृत्तमहो रूपम् अहो धनमहो कुलम् मम चास्य च मे भर्तुर् अहो लावण्यम् उत्तमम्
रेमे च सा तेन समम् अतिकालमिला ततः सर्वभोगमये गेहे यथेन्द्रभवने तथा
अथान्विषन्तो राजानं भ्रातरस् तस्य मानवाः इक्ष्वाकुप्रमुखा जग्मुस् तदा शरवणान्तिकम्
ततस्ते ददृशुः सर्वे वडबाम् अग्रतः स्थिताम् रत्नपर्याणकिरणदीप्तकायाम् अनुत्तमाम्
पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयम् आगताः अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः
अगमद् वडबारूपम् उत्तमं केन हेतुना ततस् तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम्
किमित्येतदभूच्चित्रं वद योगविदां वर वसिष्ठश्चाब्रवीत् सर्वं दृष्ट्वा तद्ध्यानचक्षुषा
समयः शम्भुदयिताकृतः शरवणे पुरा यः पुमान्प्रविशेद् अत्र स नारीत्वमवाप्स्यति
अयमश्वो ऽपि नारीत्वम् अगाद्राज्ञा सहैव तु पुनः पुरुषतामेति यथासौ धनदोपमः
तथैव यत्नः कर्तव्यश् चाराध्यैव पिनाकिनम् ततस्ते मानवा जग्मुर् यत्र देवो महेश्वरः
तुष्टुवुर् विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ ताव् ऊचतुर् अलङ्घ्यो ऽयं समयः किंतु साम्प्रतम्
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम्
तथेत्युक्तास्ततस्ते तु जग्मुर् वैवस्वतात्मजाः इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषो ऽभवत्
मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः बुधस्य भवने तिष्ठन् निलो गर्भधरो ऽभवत्