तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः शैलवाटैः परिवृतम् अगम्यं मनुजैः सदा
पूर्वाराधितभावो ऽसौ महाराजः पुरूरवाः तदाश्रमपदं प्राप्तो देवदेवप्रसादतः
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम् कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्रराट्
तत्र यौ तौ महाशृङ्गौ महावर्णौ महाहिमौ तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम्
नित्यातप्तशिलाजातं सदाभ्रपरिवर्जितम् तस्याधस्ताद्वृक्षगणे दिशां भागे च पश्चिमे
जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् दृष्ट्वैव कौतुकाविष्टस् तं विवेश महीपतिः
तमसा चातिनिबिडं नल्वमात्रं सुसंकटम् नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम्
तम् उच्छ्रितम् अथात्यन्तं गम्भीरं परिवर्तुलम् न तत्र सूर्यस्तपति न विराजति चन्द्रमाः
तथापि दिवसाकारं प्रकाशं तदहर्निशम् क्रोशाधिकपरीमाणं सरसा च विराजितम्
समन्तात्सरसस्तस्य शैललग्ना तु वेदिका सौवर्णै राजतैर्वृक्षैर् विद्रुमैरुपशोभितम्
नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः तस्मिन्सरसि पद्मानि पद्मरागच्छदानि तु
वज्रकेसरजालानि सुगन्धीनि तथा युतम् पत्त्रैर् मरकतैर् नीलैर् वैडूर्यस्य महीपते
कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव तस्मिन्सरसि या भूमिर् न सा वज्रसमाकुला
नानारत्नैरुपचिता जलजानां समाश्रयः कपर्दिकानां शुक्तीनां शङ्खानां च महीपते
मकराणां च मत्स्यानां चण्डानां कच्छपैः सह तत्र मरकतखण्डानि वज्राणां च सहस्रशः
पद्मरागेन्द्रनीलानि महानीलानि पार्थिव पुष्परागाणि सर्वाणि तथा कर्कोटकानि च
तुत्थकस्य तु खण्डानि तथा शेषस्य भागशः राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ
सूर्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः
सुरोरगवलक्षाणां स्फटिकस्य तथैव च गोमेदपित्तकानां च धूलीमरकतस्य च
वैडूर्यसौगन्धिकयोस् तथा राजमणेर्नृप वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि
मुक्ताफलानि मुक्तानां ताराविग्रहधारिणाम्
सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम् वैडूर्यस्य शिला मध्ये सरसस्तस्य शोभना
प्रमाणेन तथा सा च द्वे च राजन्धनुःशते चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा
बिलद्वारसमो देशो यत्र यत्र हिरण्मयः प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे
तथा पुष्करिणी रम्या तस्मिन्राजञ्शिलातले सुशीतामलपानीया जलजैश्च विराजिता
आकाशप्रतिमा राजंश् चतुरस्रा मनोहरा तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धिकम्
न क्षिणोति यथा कण्ठं कुक्षिं नापूरयत्यपि तृप्तिं विधत्ते परमां शरीरे च महत्सुखम्
मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम्
शशाङ्करश्मेः संकाशं प्रासादं राजतं हितम् रम्यवैडूर्यसोपानं विद्रुमामलसारकम्
इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम् वज्रांशुजालैः स्फुरितं रम्यं दृष्टिमनोरमम्