मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथा चषान् एतांश्चान्यांश्च सुबहून् पक्षिसंघान्मनोहरान्
श्वापदान्विविधाकारान् मृगांश्चैव महामृगान् व्याघ्रान्केसरिणः सिंहान् द्वीपिनः शरभान्वृकान्
ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्गूलान् सवानरान् शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः
मूषकान्नकुलान् कावान् सिंहान् द्रुममनोहरान् तथा मत्तांश्च मातंगान् महिषान् गवयान् वृषान् चमरान् सृमरांश्चैव तथा गौरखरानपि
उरभ्रांश्च तथा मेषान् सारङ्गानथ कूकुरान् नीलांश्चैव महानालान् करालान्मृगमातृकान्
सदंष्ट्रारामसरभान् क्रौञ्चाकारकशम्बरान् करालान्कृतमालांश्च कालपुच्छांश्च तोरणान्
दंष्ट्रान्खड्गान्वराहांश्च तुरंगान्खरगर्दभान् एतान् अद्विष्टान्मद्रेशो विरुद्धांश्च परस्परम्
अविरुद्धान्वने दृष्ट्वा विस्मयं परमं ययौ तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृपम्
तत्प्रसादात्प्रभायुक्तं स्थावरैर्जङ्गमैस्तथा हिंसन्ति हि न चान्योन्यं हिंसकास्तु परस्परम्
क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः निर्मितास्तत्र चात्यर्थम् अत्रिणा सुमहात्मना
शैलानितम्बदेशेषु न्यवसच्च स्वयं नृपः पयः क्षरन्ति ते दिव्यम् अमृतस्वादुकण्टकम्
क्वचिद्राजन्महिष्यश्च क्वचिदाजाश्च सर्वशः शिलाः क्षीरेण सम्पूर्णा दध्ना चान्यत्र वा बहिः
संपश्यन्परमां प्रीतिम् अवाप वसुधाधिपः सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः
प्रणालिकानि चोष्णानि शीतलानि च भागशः कन्दराणि च शैलस्य सुसेव्यानि पदे पदे
हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् उपत्यका सुशैलस्य शिखरस्य न विद्यते
तत्रास्ति राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम् हिमपातं घना यत्र कुर्वन्ति सहिताः सदा
तत्रास्ति चापरं शृङ्गं यत्र तोयघना घनाः नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम्
तदाश्रमं मनोहारि यत्र कामधरा धरा सुरमुख्योपयोगित्वाच् छाखिनां सफलाः फलाः
सदोपगीतभ्रमरसुरस्त्रीसेवितं परम् सर्वपापक्षयकरं शैलस्येव प्रहारकम्
वानरैः क्रीडमानैश्च देशाद्देशान्नराधिप हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः
तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः शैलवाटैः परिवृतम् अगम्यं मनुजैः सदा
पूर्वाराधितभावो ऽसौ महाराजः पुरूरवाः तदाश्रमपदं प्राप्तो देवदेवप्रसादतः
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम् कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्रराट्
तत्र यौ तौ महाशृङ्गौ महावर्णौ महाहिमौ तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम्
नित्यातप्तशिलाजातं सदाभ्रपरिवर्जितम् तस्याधस्ताद्वृक्षगणे दिशां भागे च पश्चिमे
जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् दृष्ट्वैव कौतुकाविष्टस् तं विवेश महीपतिः
तमसा चातिनिबिडं नल्वमात्रं सुसंकटम् नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम्
तम् उच्छ्रितम् अथात्यन्तं गम्भीरं परिवर्तुलम् न तत्र सूर्यस्तपति न विराजति चन्द्रमाः
तथापि दिवसाकारं प्रकाशं तदहर्निशम् क्रोशाधिकपरीमाणं सरसा च विराजितम्
समन्तात्सरसस्तस्य शैललग्ना तु वेदिका सौवर्णै राजतैर्वृक्षैर् विद्रुमैरुपशोभितम्