पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः तिन्तिडीकैस्तथा लोध्रैर् विडङ्गैः क्षीरिकाद्रुमैः
अश्मन्तकैस्तथा कालैर् जम्बीरैः श्वैतकद्रुमैः भल्लातकैरिन्द्रयवैर् वल्गुजैः सिद्धिसाधकैः
नागकेसरवृक्षैश्च सुकेसरमनोहरैः करमर्दैः कासमर्दैर् अरिष्टकवरिष्टकैः रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः
कङ्कोलकैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः प्रतानैः पिप्पलीनां च नागवल्यश्च भागशः
मरीचस्य तथा गुल्मैर् नवमल्लिकया तथा मृद्वीकामण्डपैर्मुख्यैर् अतिमुक्तकमण्डपैः
त्रपुषैर्नर्तिकानां च प्रतानैः सफलैः शुभैः कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित्
चिर्भिटस्य प्रतानैश्च पटोलीकारवेल्लकैः कर्कोटकीवितानैश्च वार्ताकैर् बृहतीफलैः
कण्टकैर् मूलकैर्मूलशाकैस्तु विविधैस्तथा कह्लारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः
औषधीभिर्विचित्राभिर् दीप्यमानाभिरेव च आयुष्याभिर्यशस्याभिर् बल्याभिश्च नराधिप
जरामृत्युभयघीभिः क्षुद्भयघ्नीभिरेव च सौभाग्यजननीभिश्च कुत्स्नाभिश्चाप्यनेकशः
तत्र वेणुलताभिश्च तथा कीचकवेणुभिः काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च
कुशगुल्मैस्तथा रम्यैर् गुल्मैश्चेक्षोर् मनोरमैः कार्पासजातिवर्गेण दुर्लभेन शुभेन च
तथा च कदलीखण्डैर् मनोहारिभिरुत्तमैः तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः
इरापुंष्पसमायुक्तैः कुङ्कमस्य च भागशः तगरातिविषामांसीग्रन्थिकैस्तु सुरागदैः
सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा
शङ्गवेराजमोदाभिः कुबेरकप्रियालकैः जलजैश्च तथा वणैर् नानावर्णैः सुगन्धिभिः
उदयादित्यसंकाशैः सूर्यचन्द्रनिभैस्तथा तपनीयसवर्णैश्च अतसीपुष्पसंनिभैः
शूकपत्त्रनिभैश्चान्यैः स्थलपत्त्रैश्च भागशः पञ्चवर्णैः समाकीर्णैर् बहुवर्णैस्तथैव च
द्रष्टुर्दृष्ट्या हितमुदैः कुमुदैश्चन्द्रसंनिभैः तथा वह्निशिखाकारैर् गजवक्त्रोत्पलैः शुभैः
नीलोत्पलैः सकह्लारैर् गुञ्जातककसेरुकैः शृङ्गाटकमृणालैश्च करटै राजतोत्पलैः
जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः विविधैश्चैव नीवारैर् मुनिभोज्यैर्नराधिप
न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप
नागलोकोद्भवं दिव्यं नरलोकभवं च यत् अनूपोत्थं वनोत्थं च तत्र यन्नास्ति पार्थिवः
सदा पुष्पफलं सर्वम् अजर्यम् ऋतुयोगतः मद्रेश्वरः स ददृशे तपसा ह्यतियोगतः
ददृशे च तथा तत्र नानारूपान् पतत्रिणः मयूरान् शतपत्त्रांश्च कलविङ्कांश्च कोकिलान्
तथा कादम्बकान्हंसान् कोयष्टीन् खञ्जरीटकान् कुररान्कालकूटांश्च खट्वाङ्गान् लुब्धकांस् तथा
गोक्ष्वेडकांस्तथा कुम्भान् धार्तराष्ट्राञ्शुकान्बकान् घातुकांश्चक्रवाकांश्च कटुकान्टिट्टिभान् भटान्
पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान् पारावतांश्च कमलान् सारिका जीवजीवकान्
लाववर्तकवार्ताकान् रक्तवर्त्मप्रभद्रकान् ताम्रचूडान्स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान्
कपिञ्जलान्कलविङ्कांस् तथा कुङ्कुमचूडकान् भृङ्गराजान् सीरपादान् भूलिङ्गान् डिण्डिमान् नवान्