ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः
शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपद्रुमैः
श्लेष्मातकैर् आमलकैर् हरीतकविभीतकैः भूर्जैः समुञ्जकैर् बाणैर् वृक्षैः सप्तच्छदद्रुमैः
महानिम्बैस्तथा निम्बैर् निर्गुण्डीभिर्हरिद्रुमैः देवदारुमहावृक्षैस् तथा कालेयकद्रुमैः
पद्मकैश्चन्दनैर्बिल्वैः कपित्थै रक्तचन्दनैः माताम्ररिष्टकाक्षोटैर् अब्दकैश्च तथार्जुनैः
हस्तिकर्णैः सुमनसैः कोविदारैः सुपुष्पितैः प्राचीनामलकैश्चापि धनकैः समराटकैः
खर्जूरैर्नारिकेलैश्च प्रियालाम्रातकेङ्गुदैः तन्तुमालैर् धवैर्भव्यैः काश्मीरीपर्णिभिस्तथा
जातीफलैः पूगफलैः कट्फलैलावलीफलैः मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः
यवासैः शमिपर्णासैर् वेतसैर् अम्बुवेतसैः रक्तातिरङ्गनारङ्गैर् हिङ्गुभिः सप्रियङ्गुभिः
रक्ताशोकैस् तथाशोकैर् आकल्लैर् अविचारकैः मुचुकुन्दैस्तथा कुन्दैर् आटरूषपरूषकैः
किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः शोभाञ्जनैर् अञ्जनैश्च सुकलिङ्गनिकोटकैः
सुवर्णचारुवसनैर् द्रुमश्रेष्ठैस् तथासनैः मन्मथस्य शराकारैः सहकारैर्मनोरमैः
पीतयूथिकया चैव श्वेतयूथिकया तथा जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः
मोचैर्लोचैस्तु लकुचैस् तिलपुष्पकुशेशयैः तथा सुपुष्पावरणैश् चव्यकैः कामिवल्लभैः
पुष्पाङ्कुरैश्च बकुलैः पारिभद्रहरिद्रकैः धाराकदम्बैः कुटजैः कदम्बैर् गिरिकुटजैः
आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः कट्फलैर्बदरैर्नीपैर् दीपैरिव महोज्ज्वलैः
रक्तैः पालीवनैः श्वेतैर् दाडिमैश्चम्पकद्रुमैः बन्धूकैश्च सुबन्धूकैः कुञ्जकानां तु जातिभिः
कुसुमैः पाटलाभिश्च मल्लिकाकरवीरकैः कुरबकैर् हिमवरैर् जम्बूभिर् नृपजम्बुभिः
बीजपूरैः सकर्पूरैर् गुरुभिश्चागुरुद्रुमैः बिम्बैश्च प्रतिबिम्बैश्च संतानकवितानकैः
तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः तृणशून्यैः करवीरैर् अशोकैश् चक्रमर्दनैः
पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः तिन्तिडीकैस्तथा लोध्रैर् विडङ्गैः क्षीरिकाद्रुमैः
अश्मन्तकैस्तथा कालैर् जम्बीरैः श्वैतकद्रुमैः भल्लातकैरिन्द्रयवैर् वल्गुजैः सिद्धिसाधकैः
नागकेसरवृक्षैश्च सुकेसरमनोहरैः करमर्दैः कासमर्दैर् अरिष्टकवरिष्टकैः रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः
कङ्कोलकैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः प्रतानैः पिप्पलीनां च नागवल्यश्च भागशः
मरीचस्य तथा गुल्मैर् नवमल्लिकया तथा मृद्वीकामण्डपैर्मुख्यैर् अतिमुक्तकमण्डपैः
त्रपुषैर्नर्तिकानां च प्रतानैः सफलैः शुभैः कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित्
चिर्भिटस्य प्रतानैश्च पटोलीकारवेल्लकैः कर्कोटकीवितानैश्च वार्ताकैर् बृहतीफलैः
कण्टकैर् मूलकैर्मूलशाकैस्तु विविधैस्तथा कह्लारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः
औषधीभिर्विचित्राभिर् दीप्यमानाभिरेव च आयुष्याभिर्यशस्याभिर् बल्याभिश्च नराधिप
जरामृत्युभयघीभिः क्षुद्भयघ्नीभिरेव च सौभाग्यजननीभिश्च कुत्स्नाभिश्चाप्यनेकशः