यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः तपोवनाश्च ऋषयस् तथा देवाः सहाप्सराः
लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननाः
या बिभर्ति सदा तोयं देवसंघैरपीडितम् पुलिन्दैर्नृपसंघैश्च व्याघ्रवृन्दैरपीडितम्
सतामरसपानीयां सतारगगनामलाम् स तां पश्यन्ययौ राजा सतामीप्सितकामदाम्
यस्यास्तीररुहैः काशैः पूर्णैश्चन्द्रांशुसंनिभैः राजते विविधाकारै रम्यतीरं महाद्रुमैः या सदा विविधैर्विप्रैर् देवैश्चापि निषेव्यते
या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण यानुगता सरितां हि कदम्बैर् यानुगता सततं हि मुनीन्द्रैः
या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंघैः या च युता सततं सुरवृन्दैर् या च जनैः स्वहिताय श्रिता वै
प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा संतानयुक्तसलिलापि सुवर्णयुक्ता सूर्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा ददृशे नृपेण
आलोकयन्नदीं पुण्यां तत्समीरहृतश्रमः स गच्छन्नेव ददृशे हिमवन्तं महागिरिम्
खमुल्लिखद्भिर्बहुभिर् वृतं शृङ्गैस्तु पाण्डुरैः पक्षिणामपि संचारैर् विना सिद्धगतिं शुभाम्
नदीप्रवाहसंजातमहाशब्दैः समन्ततः असंश्रुतान्यशब्दं तं शीततोयं मनोरमम्
देवदारुवनैर्नीलैः कृताधोवसनं शुभम् मेघोत्तरीयकं शैलं ददृशे स नराधिपः
श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम्
चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा शीतप्रदं निदाघे ऽपि शिलाविकटसंकटम् सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित्
क्वचित्संस्पृष्टसूर्यांशुं क्वचिच् च तमसावृतम् दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत्
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् उपगीतं तथा मुख्यैः किंनराणां गणैः क्वचित्
आपानभूमौ गलितैर् गन्धर्वाप्सरसां क्वचित् पुष्पैः संतानकादीनां दिव्यैस्तम् उपशोभितम्
सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित् मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम्
निरुद्धपवनैर्देशैर् नीलशाद्वलमण्डितैः क्वचिच् च कुसुमैर्युक्तम् अत्यन्तरुचिरं शुभम्
तपस्विशरणं शैलं कामिनामतिदुर्लभम् मृगैर्यथानुचरितं दन्तिभिन्नमहाद्रुमम्
यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् दृश्यते न च संश्रान्तं गजानामाकुलं कुलम्
तटाश्च तापसैर्यत्र कुञ्जदेशैरलंकृताः रत्नैर्यस्य समुत्पन्नैस् त्रैलोक्यं समलंकृतम्
अहीनशरणं नित्यम् अहीनजनसेवितम् अहीनः पश्यति गिरिम् अहीनं रत्नसम्पदा
अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः यस्य दर्शनमात्रेण सर्वकल्मषनाशनम्
महाप्रपातसम्पातप्रपातादिगताम्बुभिः वायुनीतैः सदा तृप्तिकृतदेशं क्वचित्क्वचित्
समालब्धजलैः शृङ्गैः क्वचिच् चापि समुच्छ्रितैः नित्यार्कतापविषमैर् अगम्यैर्मनसा युतम्
देवदारुमहावृक्षव्रजशाखानिरन्तरैः वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम्
हिमछत्त्रमहाशृङ्गं प्रपातशतनिर्झरम् शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम्
दृष्ट्वैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः बभ्राम तत्रैव मुदा समेतः स्थानं तदा किंचिदथाससाद
तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम् अगम्यं मानुषैर् अन्यैर् दैवयोगाद् उपागतः