अग्र्यां समुद्रमहिषीं महर्षिगणसेविताम् सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम्
हितां सर्वस्य लोकस्य नाकमार्गप्रदायिकाम् गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम्
हंससारससंघुष्टां जलजैरुपशोभिताम् आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम्
नीलनीरजनेत्राभाम् उत्फुल्लकमलाननाम् हिमाभफेनवसनां चक्रवाकाधरां शुभाम् बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम्
स्वजलोद्भूतमातंगरम्यकुम्भपयोधराम् हंसनूपुरसंघुष्टां मृणालवलयावलीम्
तस्यां रूपमदोन्मत्ता गन्धर्वानुगताः सदा मध्याह्नसमये राजन् क्रीडन्त्यप्सरसां गणाः
ताम् अप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम् स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम्
तरंगव्रातसंक्रान्तसूर्यमण्डलदुर्दृशम् सुरेभजनिताघातविकूलद्वयभूषिताम्
शक्रेभगण्डसलिलैर् देवस्त्रीकुचचन्दनैः संयुतं सलिलं तस्याः षट्पदैर् उपसेव्यते
तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाञ्चिताः तथापकृष्टसंभ्रान्तभ्रमरस्तनिताकुलाः
यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः तपोवनाश्च ऋषयस् तथा देवाः सहाप्सराः
लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननाः
या बिभर्ति सदा तोयं देवसंघैरपीडितम् पुलिन्दैर्नृपसंघैश्च व्याघ्रवृन्दैरपीडितम्
सतामरसपानीयां सतारगगनामलाम् स तां पश्यन्ययौ राजा सतामीप्सितकामदाम्
यस्यास्तीररुहैः काशैः पूर्णैश्चन्द्रांशुसंनिभैः राजते विविधाकारै रम्यतीरं महाद्रुमैः या सदा विविधैर्विप्रैर् देवैश्चापि निषेव्यते
या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण यानुगता सरितां हि कदम्बैर् यानुगता सततं हि मुनीन्द्रैः
या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंघैः या च युता सततं सुरवृन्दैर् या च जनैः स्वहिताय श्रिता वै
प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा संतानयुक्तसलिलापि सुवर्णयुक्ता सूर्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा ददृशे नृपेण
आलोकयन्नदीं पुण्यां तत्समीरहृतश्रमः स गच्छन्नेव ददृशे हिमवन्तं महागिरिम्
खमुल्लिखद्भिर्बहुभिर् वृतं शृङ्गैस्तु पाण्डुरैः पक्षिणामपि संचारैर् विना सिद्धगतिं शुभाम्
नदीप्रवाहसंजातमहाशब्दैः समन्ततः असंश्रुतान्यशब्दं तं शीततोयं मनोरमम्
देवदारुवनैर्नीलैः कृताधोवसनं शुभम् मेघोत्तरीयकं शैलं ददृशे स नराधिपः
श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम्
चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा शीतप्रदं निदाघे ऽपि शिलाविकटसंकटम् सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित्
क्वचित्संस्पृष्टसूर्यांशुं क्वचिच् च तमसावृतम् दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत्
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् उपगीतं तथा मुख्यैः किंनराणां गणैः क्वचित्
आपानभूमौ गलितैर् गन्धर्वाप्सरसां क्वचित् पुष्पैः संतानकादीनां दिव्यैस्तम् उपशोभितम्
सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित् मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम्
निरुद्धपवनैर्देशैर् नीलशाद्वलमण्डितैः क्वचिच् च कुसुमैर्युक्तम् अत्यन्तरुचिरं शुभम्
तपस्विशरणं शैलं कामिनामतिदुर्लभम् मृगैर्यथानुचरितं दन्तिभिन्नमहाद्रुमम्