शृङ्गवान् पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः इत्येतानि मयोक्तानि नववर्षाणि भारते
भूतैरपि निविष्टानि गतिमन्ति ध्रुवाणि च तेषां वृद्धिर्बहुविधा दृश्यते देवमानुषैः अशक्या परिसंख्यातुं श्रद्धेया च बुभूषता
चरितं बुधपुत्रस्य जनार्दन मया श्रुतम् श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः
धेन्वाः प्रसूयमानायाः फलं दानस्य मे श्रुतम् कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च
श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः
केन कर्मविपाकेन स तु राजा पुरूरवाः अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्
देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान् उर्वशी संमता त्यक्त्वा सर्वभावेन तं नृपम्
शृणु कर्मविपाकेन येन राजा पुरूरवाः अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्
अतीते जन्मनि पुरा यो ऽयं राजा पुरूरवाः पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः
चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः
पुरूरवा मद्रपतिः कर्मणा केन पार्थिवः बभूव कर्मणा केन रूपवांश्चैव सूतज
द्विजग्रामे द्विजश्रेष्ठो नाम्ना चासीत्पुरूरवाः नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः
स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः तस्मिञ्जन्मन्यसौ विप्रो द्वादश्यां तु सदानघ
उपोष्य पूजयामास राज्यकामो जनार्दनम् चकार सोपवासश्च स्नानम् अभ्यङ्गपूर्वकम्
उपवासफलात्प्राप्तं राज्यं मद्रेष्वकण्टकम् उपोषितस् तथाभ्यङ्गाद् रूपहीनो व्यजायत
उपोषितैर्नरैस् तस्मात् स्नानम् अभ्यङ्गपूर्वकम् वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप
एतद्वः कथितं सर्वं यद्वृत्तं पूर्वजन्मनि मद्रेश्वरत्वचरितं शृणु तस्य महीपतेः
तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः जनानुरागो नैवासीद् रूपहीनस्य तस्य वै
रूपकामः स मद्रेशस् तपसे कृतनिश्चयः राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम्
व्यवसायद्वितीयस्तु पद्भ्यम् एव महायशाः द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम्
ऐरावतीति विख्यातां ददर्शातिमनोरमाम्
तुहिनगिरिभवां महौघवेगां तुहिनगभस्तिसमानशीतलोदाम्
तुहिनसदृशहैमवर्णपुञ्जां तुहिनयशाः सरितं ददर्श राजा
स ददर्श नदीं पुण्यां दिव्यां हैमवतीं शुभाम् गन्धर्वैश्च समाकीर्णां नित्यं शक्रेण सेविताम्
सुरेभमदसंसिक्तां समन्तात्तु विराजिताम् मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा
तपस्विशरणोपेतां महाब्राह्मणसेविताम् ददर्श तपनीयाभां महाराजः पुरूरवाः
सितहंसावलिच्छन्नां काशचामरराजिताम् साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ
पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् क्षयवृद्धियुतां रम्यां सोममूर्तिमिवापराम्
सुशीतशीघ्रपानीयां द्विजसंघनिषेविताम् सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम्
अमृतस्वादुसलिलां तापसैरुपशोभिताम् स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम्