अनामया ह्यशोकाश्च नित्यं मुदितमानसाः सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसः स्मृताः
ततः परं किम्पुरुषाद् धरिवर्षं प्रचक्षते महारजतसंकाशा जायन्ते यत्र मानवाः
देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम्
न जरा बाधते तत्र तेन जीवन्ति ते चिरम् एकादश सहस्राणि तेषामायुः प्रकीर्तितम्
मध्यमं तन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् न तत्र सूर्यस्तपति न च जानन्ति मानवाः
चन्द्रसूर्यौ सनक्षत्राव् अप्रकाशाविलावृते पद्मप्रभाः पद्मवर्णाः पद्मपत्त्रनिभेक्षणाः
पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः
देवलोकच्युताः सर्वे महारजतवाससः त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः
आयुष्प्रमाणं जीवन्ति ये तु वर्ष इलावृते मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण वा
सुदर्शनो नाम महाञ् जम्बूवृक्षः सनातनः नित्यपुष्पफलोपेतः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः योजनानां सहस्रं च शतधा च महान्पुनः
उत्सेधो वृक्षराजस्य दिवम् आवृत्य तिष्ठति तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति
मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते
जम्बूफलरसं पीत्वा न जरा बाधते ऽपि तान् न क्षुधा न क्लमो वापि न दुःखं च तथाविधम्
तत्र जाम्बूनदं नाम कनकं देवभूषणम् इन्द्रगोपकसंकाशं जायते भासुरं च यत्
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः स्कन्नं तु काञ्चनं शुभ्रं जायते देवभूषणम्
तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः ईश्वरानुग्रहाद्भूमिर् मृतांश्च ग्रसते तु तान्
रक्षःपिशाचा यक्षाश्च सर्वे हैमवतास्तु ते हेमकूटे तु विज्ञेया गन्धर्वाः साप्सरोगणाः
सर्वे नागा निषेवन्ते शेषवासुकितक्षकाः महामेरौ त्रयस्त्रिंशत् क्रीडन्ते यज्ञियाः शुभाः
नीलवैडूर्ययुक्ते ऽस्मिन् सिद्धा ब्रह्मर्षयो ऽवसन् दैत्यानां दानवानां च श्वेतः पर्वत उच्यते
शृङ्गवान् पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः इत्येतानि मयोक्तानि नववर्षाणि भारते
भूतैरपि निविष्टानि गतिमन्ति ध्रुवाणि च तेषां वृद्धिर्बहुविधा दृश्यते देवमानुषैः अशक्या परिसंख्यातुं श्रद्धेया च बुभूषता
चरितं बुधपुत्रस्य जनार्दन मया श्रुतम् श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः
धेन्वाः प्रसूयमानायाः फलं दानस्य मे श्रुतम् कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च
श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः
केन कर्मविपाकेन स तु राजा पुरूरवाः अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्
देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान् उर्वशी संमता त्यक्त्वा सर्वभावेन तं नृपम्
शृणु कर्मविपाकेन येन राजा पुरूरवाः अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्
अतीते जन्मनि पुरा यो ऽयं राजा पुरूरवाः पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः
चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः