अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये निराहाराः सर्वगाश्च कुपथा अपथास्तथा
कुथप्रावरणाश्चैव ऊर्णादवाः समुद्गकाः त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह
चत्वारि भारते वर्षे युगानि मुनयो ऽब्रुवन् कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् तेषां निसर्गं वक्ष्यामि उपरिष्टाच्च कृत्स्नशः
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम्
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च आचक्ष्व नो यथातत्त्वं कीर्तितं भारतं त्वया
जम्बूखण्डस्य विस्तारं तथान्येषां विदांवर द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः
पृष्टस्त्वेवं तदा विप्रैर् यथाप्रश्नं विशेषतः उवाच ऋषिभिर्दृष्टं पुराणाभिमतं तथा
शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः जम्बूवर्षः किम्पुरुषः सुमहानन्दनोपमः
दश वर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः
वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः तस्य किम्पुरुषाः सर्वे पिबन्तो रसमुत्तमम्
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसः स्मृताः
ततः परं किम्पुरुषाद् धरिवर्षं प्रचक्षते महारजतसंकाशा जायन्ते यत्र मानवाः
देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम्
न जरा बाधते तत्र तेन जीवन्ति ते चिरम् एकादश सहस्राणि तेषामायुः प्रकीर्तितम्
मध्यमं तन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् न तत्र सूर्यस्तपति न च जानन्ति मानवाः
चन्द्रसूर्यौ सनक्षत्राव् अप्रकाशाविलावृते पद्मप्रभाः पद्मवर्णाः पद्मपत्त्रनिभेक्षणाः
पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः
देवलोकच्युताः सर्वे महारजतवाससः त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः
आयुष्प्रमाणं जीवन्ति ये तु वर्ष इलावृते मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण वा
सुदर्शनो नाम महाञ् जम्बूवृक्षः सनातनः नित्यपुष्पफलोपेतः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः योजनानां सहस्रं च शतधा च महान्पुनः
उत्सेधो वृक्षराजस्य दिवम् आवृत्य तिष्ठति तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति
मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते
जम्बूफलरसं पीत्वा न जरा बाधते ऽपि तान् न क्षुधा न क्लमो वापि न दुःखं च तथाविधम्
तत्र जाम्बूनदं नाम कनकं देवभूषणम् इन्द्रगोपकसंकाशं जायते भासुरं च यत्
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः स्कन्नं तु काञ्चनं शुभ्रं जायते देवभूषणम्
तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः ईश्वरानुग्रहाद्भूमिर् मृतांश्च ग्रसते तु तान्
रक्षःपिशाचा यक्षाश्च सर्वे हैमवतास्तु ते हेमकूटे तु विज्ञेया गन्धर्वाः साप्सरोगणाः
सर्वे नागा निषेवन्ते शेषवासुकितक्षकाः महामेरौ त्रयस्त्रिंशत् क्रीडन्ते यज्ञियाः शुभाः
नीलवैडूर्ययुक्ते ऽस्मिन् सिद्धा ब्रह्मर्षयो ऽवसन् दैत्यानां दानवानां च श्वेतः पर्वत उच्यते