पृथक्चकार तत्तेजश् चक्रं विष्णोर् अकल्पयत् त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम्
दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम् रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः अर्चास्वपि ततः पादौ न कश्चित्कारयेत् क्वचित्
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम् कुष्ठरोगमवाप्नोति लोके ऽस्मिन्दुःखसंयुतः
तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
ततः स भगवान्गत्वा भूर्लोकम् अमराधिपः कामयामास कामार्तो मुख एव दिवाकरः
अश्वरूपेण महता तेजसा च समावृतः संज्ञा च मनसा क्षोभम् अगमद्भयविह्वला
नासापुटाभ्यामुत्सृष्टं परो ऽयमिति शङ्कया तद्रेतसस् ततो जाताव् अश्विनाव् इति निश्चितम्
दस्रौ सुतत्वात् संजातौ नासत्यौ नासिकाग्रतः ज्ञात्वा चिराच्च तं देवं संतोषम् अगमत् परम्
विमानेनागमत्स्वर्गं पत्या सह मुदान्विता सावर्णो ऽपि मनुर् मेराव् अद्याप्यास्ते तपोधनः शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः
यमुना तपती चैव पुनर्नद्यौ बभूवतुः विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता
मनोर् वैवस्वतस्यासन् दश पुत्रा महाबलाः इलस् तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च नरिष्यन्तः करूषश्च शर्यातिश्च महाबलाः पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः
अभिषिच्य मनुः पुत्रम् इलं ज्येष्ठं स धार्मिकः जगाम तपसे भूयः स महेन्द्रवनालयम्
अथ दिग्जयसिद्ध्यर्थम् इलः प्रायान्महीम् इमाम् भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन्
जगामोपवनं शम्भोर् अश्वाकृष्टः प्रतापवान् कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्
रमते यत्र देवेशः शम्भुः सोमार्धशेखरः उमया समयस्तत्र पुरा शरवणे कृतः
पुंनाम सत्त्वं यत्किंचिद् आगमिष्यति ते वने स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले
अज्ञातसमयो राजा इलः शरवणे पुरा स्त्रीत्वमाप विशन्न् एव वडबात्वं हयस्तदा
पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृपः इलेति साभवन्नारी पीनोन्नतघनस्तनी
उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा तनुलोमा सुदशना मृदुगम्भीरभाषिणी
श्यामगौरेण वर्णेन हंसवारणगामिनी कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा
भ्रमन्ती च वने तस्मिंश् चिन्तयामास भामिनी को मे पिताथवा भ्राता का मे माता भवेदिह
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना
इला रूपसमाक्षिप्तमनसा वरवर्णिनी बुधस्तदाप्तये यत्नम् अकरोत्कामपीडितः
विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः वेणुदण्डकृतानेकपवित्रकगणत्रिकः
द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः
किलान्विषन् वने तस्मिन् नाजुहाव स तामिलाम् बहिर् वनस्यान्तरितः किल पादपमण्डले
ससंभ्रममकस्मात्तां सोपालम्भमिवावदत् त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम