शूरसेना भद्रकारा बाह्याः सहपटच्चराः मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः
आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह मध्यदेशा जनपदाः प्रायशः परिकीर्तिताः
सह्यस्यानन्तरे चैते तत्र गोदावरी नदी पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः
यत्र गोवर्धनो नाम मन्दरो गन्धमादनः रामप्रियार्थं स्वर्गीया वृक्षा दिव्यास्तथौषधीः
भरद्वाजेन मुनिना प्रियार्थमवतारिताः ततः पुष्पवरो देशस् तेन जज्ञे मनोरमः
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः पुरंध्राश्चैव शूद्राश्च पल्लवाश् चात्तखण्डिकाः
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्तिकाः
रामठाः कण्टकाराश्च कैकेया दशनामकाः क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च
अत्रयो ऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः लम्पकास् तलगानाश्च सैनिकाः सह जाङ्गलैः एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत
अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी ततः प्लवंगमातंगा यमका मल्लवर्णकाः सुह्मोत्तराः प्रविजया मार्गवा गेयमालवाः
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः शाल्वमागधगोनर्दाः प्राच्या जनपदाः स्मृताः
तेषां परे जनपदा दक्षिणापथवासिनः पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च
सेतुकाः सूतिकाश्चैव कुपथां वाजिवासिकाः नवराष्ट्रा माहिषिकाः कलिङ्गाश्चैव सर्वशः
कारूषाश्च सहैषीका आटव्याः शबरास्तथा पुलिन्दा विन्ध्यपुषिका वैदर्भा दण्डकैः सह
कुलीयाश्च सिरालाश्च रूपसास् तापसैः सह तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा
वासिक्याश्चैव ये चान्ये ये चैवान्तरनर्मदाः भारुकच्छाः समाहेयाः सह सारस्वतैस्तथा
काच्छीकाश्चैव सौराष्ट्रा आनर्ता अर्बुदैः सह इत्येते अपरान्तास्तु शृणु ये विन्ध्यवासिनः
मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह औण्ड्रा माषा दशार्णाश्च भोजाः किष्किन्धकैः सह
स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा तुमुरास् तुम्बराश्चैव पद्गमा नैषधैः सह
अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये निराहाराः सर्वगाश्च कुपथा अपथास्तथा
कुथप्रावरणाश्चैव ऊर्णादवाः समुद्गकाः त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह
चत्वारि भारते वर्षे युगानि मुनयो ऽब्रुवन् कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् तेषां निसर्गं वक्ष्यामि उपरिष्टाच्च कृत्स्नशः
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम्
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च आचक्ष्व नो यथातत्त्वं कीर्तितं भारतं त्वया
जम्बूखण्डस्य विस्तारं तथान्येषां विदांवर द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः
पृष्टस्त्वेवं तदा विप्रैर् यथाप्रश्नं विशेषतः उवाच ऋषिभिर्दृष्टं पुराणाभिमतं तथा
शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः जम्बूवर्षः किम्पुरुषः सुमहानन्दनोपमः
दश वर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः
वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः तस्य किम्पुरुषाः सर्वे पिबन्तो रसमुत्तमम्