मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम्
एकाहाज्जायते युग्मं समं चैव विवर्धते समं रूपं च शीलं च समं चैव म्रियन्ति वै
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् अनामया ह्यशोकाश्च नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते
एवमेव निसर्गो वै वर्षाणां भारते युगे दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम्
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे
एतद् वेदितुम् इच्छामः सकाशात्तव सुव्रत उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर
एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम्
बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः तेभ्यस्तु कथयामास उत्तरश्रवणं तदा
अथाहं वर्णयिष्यामि वर्षे ऽस्मिन्भारते प्रजाः भरणात्प्रजनाच्चैव मनुर्भरत उच्यते
निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम् यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः
न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः भारतस्यास्य वर्षस्य नव भेदान्निबोधत
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरः
आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः तिर्यगूर्ध्वं तु विस्तीर्णः सहस्राणि दशैव तु
द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः इज्यायुतवणिज्यादि वर्तयन्तो व्यवस्थिताः
तेषां स व्यवहारो ऽयं वर्तनं तु परस्परम् धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु
संकल्पपञ्चमानां तु आश्रमाणां यथाविधि इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे
यस्त्वयं मानवो द्वीपस् तिर्यग्यामः प्रकीर्तितः य एनं जयते कृत्स्नं स सम्राडिति कीर्तितः
अयं लोकस्तु वै सम्राड् अन्तरिक्षजितां स्मृतः स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात्
सप्त चास्मिन्महावर्षे विश्रुताः कुलपर्वताः महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः
अभिज्ञातास्ततश्चान्ये विपुलाश्चित्रसानवः अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः पिबन्ति बहुला नद्यो गङ्गा सिन्धुः सरस्वती
शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ऐरावती वितस्ता च विशाला देविका कुहूः
गोमती धौतपापा च बाहुदा च दृषद्वती कौशिकी तु तृतीया च निश्चला गण्डकी तथा
इक्षुर्लौहितम् इत्येता हिमवत्पार्श्वनिःसृताः वेदस्मृतिर् वेत्रवती वृत्रघ्नी सिन्धुरेव च पर्णाशा नर्मदा चैव कावेरी महती तथा
पारा च धन्वतीरूपा विदुषा वेणुमत्यपि शिप्रा ह्यवन्ती कुन्ती च पारियात्राश्रिताः स्मृताः