उत्तरेण तु श्वेतस्य पार्श्वे शृङ्गस्य दक्षिणे वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी
महाबला महासत्त्वा नित्यं मुदितमानसाः शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः
एकादश सहस्राणि वर्षाणां ते नरोत्तमाः आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च
तस्मिन्वर्षे महावृक्षो लकुचः पत्त्रसंश्रयः तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः
शृङ्गसाह्वस्य शृङ्गाणि त्रीणि तानि महान्ति वै एकं मणियुतं तत्र एकं तु कनकान्वितम् सर्वरत्नमयं चैकं भुवनैरुपशोभितम्
उत्तरे चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे कुरवस्तत्र तद्वर्यं पुण्यं सिद्धनिषेवितम्
तत्र वृक्षा मधुफला दिव्यामृतमयापगाः वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च
सर्वकामप्रदातारः केचिद्वृक्षा मनोरमाः अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ये रक्षन्ति सदा क्षीरं षड्रसं चामृतोपमम्
सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनवालुका सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः
मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम्
एकाहाज्जायते युग्मं समं चैव विवर्धते समं रूपं च शीलं च समं चैव म्रियन्ति वै
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् अनामया ह्यशोकाश्च नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते
एवमेव निसर्गो वै वर्षाणां भारते युगे दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम्
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे
एतद् वेदितुम् इच्छामः सकाशात्तव सुव्रत उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर
एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम्
बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः तेभ्यस्तु कथयामास उत्तरश्रवणं तदा
अथाहं वर्णयिष्यामि वर्षे ऽस्मिन्भारते प्रजाः भरणात्प्रजनाच्चैव मनुर्भरत उच्यते
निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम् यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः
न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः भारतस्यास्य वर्षस्य नव भेदान्निबोधत
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरः
आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः तिर्यगूर्ध्वं तु विस्तीर्णः सहस्राणि दशैव तु
द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः इज्यायुतवणिज्यादि वर्तयन्तो व्यवस्थिताः
तेषां स व्यवहारो ऽयं वर्तनं तु परस्परम् धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु
संकल्पपञ्चमानां तु आश्रमाणां यथाविधि इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे