चन्द्रप्रभाश् चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः चन्द्रशीतलगात्राश्च स्त्रियो ह्युत्पलगन्धिकाः
दशवर्षसहस्राणि आयुस्तेषामनामयम् कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः
इत्युक्तवानृषीन्ब्रह्मा वर्षाणि च निसर्गतः पूर्वं ममानुग्रहकृद् भूयः किं वर्णयामि वः
एतच्छ्रुत्वा वचस्ते तु ऋषयः संशितव्रताः जातकौतूहलाः सर्वे प्रत्यूचुस्ते मुदान्विताः
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने उत्तराणां च वर्षाणां पर्वतानां च सर्वशः
आख्याहि नो यथातथ्यं ये च पर्वतवासिनः एवमुक्तस्तु ऋषिभिस् तेभ्यस्त्वाख्यातवान्पुनः
शृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः रतिप्रधाना विमला जायन्ते यत्र मानवाः शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान् तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि
दशवर्षसहस्राणि दशवर्षशतानि च जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः
उत्तरेण तु श्वेतस्य पार्श्वे शृङ्गस्य दक्षिणे वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी
महाबला महासत्त्वा नित्यं मुदितमानसाः शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः
एकादश सहस्राणि वर्षाणां ते नरोत्तमाः आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च
तस्मिन्वर्षे महावृक्षो लकुचः पत्त्रसंश्रयः तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः
शृङ्गसाह्वस्य शृङ्गाणि त्रीणि तानि महान्ति वै एकं मणियुतं तत्र एकं तु कनकान्वितम् सर्वरत्नमयं चैकं भुवनैरुपशोभितम्
उत्तरे चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे कुरवस्तत्र तद्वर्यं पुण्यं सिद्धनिषेवितम्
तत्र वृक्षा मधुफला दिव्यामृतमयापगाः वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च
सर्वकामप्रदातारः केचिद्वृक्षा मनोरमाः अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ये रक्षन्ति सदा क्षीरं षड्रसं चामृतोपमम्
सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनवालुका सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः
मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम्
एकाहाज्जायते युग्मं समं चैव विवर्धते समं रूपं च शीलं च समं चैव म्रियन्ति वै
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् अनामया ह्यशोकाश्च नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते
एवमेव निसर्गो वै वर्षाणां भारते युगे दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम्
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे
एतद् वेदितुम् इच्छामः सकाशात्तव सुव्रत उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर
एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम्
बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः तेभ्यस्तु कथयामास उत्तरश्रवणं तदा