तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
उदगायतो महाशैलो माल्यवान्नाम पर्वतः द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः
माल्यवान्वै सहस्रैक आ नीलनिषधायतः द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः चातुर्वर्ण्यसमो वर्णैश् चतुरस्रः समुच्छ्रितः
नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम् उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः प्रविष्टः षोडशाधस्ताद् अष्टाविंशतिविस्तृतः
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
भुवनैरावृतः सर्वैर् जातरूपपरिष्कृतैः तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः शैलराजे प्रमोदन्ते सर्वतो ऽप्सरसां गणैः
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः
भद्राश्वं भारतं चैव केतुमालं च पश्चिमे उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः
विष्कम्भपर्वतास्तद्वन् मन्दरो गन्धमादनः विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषिताः
अरुणोदं मानसं च सितोदं भद्रसंज्ञितम् तेषामुपरि चत्वारि सरांसि च वनानि च
तथा भद्रकदम्बस्तु पर्वते गन्धमादने जम्बूवृक्षस्तथाश्वत्थो विपुले ऽथ वटः परम्
गन्धमादनपार्श्वे तु पश्चिमे ऽमरगण्डिकः द्वात्रिंशच्च सहस्राणि योजनैः सर्वतः समः
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः तत्र कालानलाः सर्वे महासत्त्वा महाबलाः
स्त्रियश् चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः तत्र दिव्यो महावृक्षः पनसः पत्त्रभासुरः
तस्य पीत्वा फलरसं संजीवन्ति समायुतम् तस्य माल्यवतः पार्श्वे पूर्वे पूर्वा तु गण्डिका द्वात्रिंशच्च सहस्राणि तत्रापि शतमुच्यते
भद्राश्वस्तत्र विज्ञेयो नित्यं मुदितमानसः भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश् चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः चन्द्रशीतलगात्राश्च स्त्रियो ह्युत्पलगन्धिकाः
दशवर्षसहस्राणि आयुस्तेषामनामयम् कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः
इत्युक्तवानृषीन्ब्रह्मा वर्षाणि च निसर्गतः पूर्वं ममानुग्रहकृद् भूयः किं वर्णयामि वः
एतच्छ्रुत्वा वचस्ते तु ऋषयः संशितव्रताः जातकौतूहलाः सर्वे प्रत्यूचुस्ते मुदान्विताः
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने उत्तराणां च वर्षाणां पर्वतानां च सर्वशः
आख्याहि नो यथातथ्यं ये च पर्वतवासिनः एवमुक्तस्तु ऋषिभिस् तेभ्यस्त्वाख्यातवान्पुनः
शृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः रतिप्रधाना विमला जायन्ते यत्र मानवाः शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान् तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि
दशवर्षसहस्राणि दशवर्षशतानि च जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः