तस्माद्द्वादशभागेन हेमकूटो ऽपि हीयते हिमवान्विंशभागेन तस्मादेव प्रहीयते अष्टाशीतिसहस्राणि हेमकूटो महागिरिः
अशीतिर्हिमवाञ्छैल आयतः पूर्वपश्चिमे द्वीपस्य मण्डलीभावाद् ध्रासवृद्धी प्रकीर्तिते
वर्षाणां पर्वतानां च यथाभेदं तथोत्तरम् तेषां मध्ये जनपदास् तानि वर्षाणि सप्त वै
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु सप्त तानि नदीभेदैर् अगम्यानि परस्परम्
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः इमं हैमवतं वर्षं भारतं नाम विश्रुतम्
हेमकूटं परं तस्मान् नाम्ना किम्पुरुषं स्मृतम् हेमकूटाच्च निषधं हरिवर्षं तदुच्यते
हरिवर्षात्परं चापि मेरोस्तु तदिलावृतम् इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्
रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम् हिरण्यकात्परं चैव शृङ्गशाकंकुरं स्मृतम्
धनुःसंस्थे तु विज्ञेये देवर्षे दक्षिणोत्तरे दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम्
पूर्वतो निषधस्येदं वेद्यर्धं दक्षिणं स्मृतम् परं त्विलावृतं पश्चाद् वेद्यर्धं तु तदुत्तरम्
तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
उदगायतो महाशैलो माल्यवान्नाम पर्वतः द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः
माल्यवान्वै सहस्रैक आ नीलनिषधायतः द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः चातुर्वर्ण्यसमो वर्णैश् चतुरस्रः समुच्छ्रितः
नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम् उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः प्रविष्टः षोडशाधस्ताद् अष्टाविंशतिविस्तृतः
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
भुवनैरावृतः सर्वैर् जातरूपपरिष्कृतैः तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः शैलराजे प्रमोदन्ते सर्वतो ऽप्सरसां गणैः
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः
भद्राश्वं भारतं चैव केतुमालं च पश्चिमे उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः
विष्कम्भपर्वतास्तद्वन् मन्दरो गन्धमादनः विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषिताः
अरुणोदं मानसं च सितोदं भद्रसंज्ञितम् तेषामुपरि चत्वारि सरांसि च वनानि च
तथा भद्रकदम्बस्तु पर्वते गन्धमादने जम्बूवृक्षस्तथाश्वत्थो विपुले ऽथ वटः परम्
गन्धमादनपार्श्वे तु पश्चिमे ऽमरगण्डिकः द्वात्रिंशच्च सहस्राणि योजनैः सर्वतः समः
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः तत्र कालानलाः सर्वे महासत्त्वा महाबलाः
स्त्रियश् चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः तत्र दिव्यो महावृक्षः पनसः पत्त्रभासुरः
तस्य पीत्वा फलरसं संजीवन्ति समायुतम् तस्य माल्यवतः पार्श्वे पूर्वे पूर्वा तु गण्डिका द्वात्रिंशच्च सहस्राणि तत्रापि शतमुच्यते
भद्राश्वस्तत्र विज्ञेयो नित्यं मुदितमानसः भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः