नाभीबन्धनसम्भूतो ब्रह्मणो ऽव्यक्तजन्मनः पूर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्येत भृङ्गिपत्त्रीनभश् चैव पश्चिमेन समन्वितः तेनास्य शूद्रता सिद्धा मेरोर् नामार्थकर्मतः
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः तेनास्य क्षत्रभावः स्याद् इति वर्णाः प्रकीर्तिताः
नीलश्च वैडूर्यमयः श्वेतः पीतो हिरण्मयः मयूरबर्हवर्णश्च शातकौम्भः स शृङ्गवान्
एते पर्वतराजानः सिद्धचारणसेविताः तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते
मध्ये त्विलावृतं नाम महामेरोः समन्ततः चतुर्विंशत्सहस्राणि विस्तीर्णो योजनैः समः
मध्ये तस्य महामेरुर् विधूम इव पावकः वेद्यर्धं दक्षिणं मेरोर् उत्तरार्धं तथोत्तरम्
वर्षाणि यानि सप्तात्र तेषां वै वर्षपर्वताः द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम्
जम्बूद्वीपस्य विस्तारस् तेषामायाम उच्यते नीलश्च निषधश्चैव तेषां हीनाश्च ये परे
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः जम्बूद्वीपप्रमाणेण ऋषभः परिकीर्त्यते
तस्माद्द्वादशभागेन हेमकूटो ऽपि हीयते हिमवान्विंशभागेन तस्मादेव प्रहीयते अष्टाशीतिसहस्राणि हेमकूटो महागिरिः
अशीतिर्हिमवाञ्छैल आयतः पूर्वपश्चिमे द्वीपस्य मण्डलीभावाद् ध्रासवृद्धी प्रकीर्तिते
वर्षाणां पर्वतानां च यथाभेदं तथोत्तरम् तेषां मध्ये जनपदास् तानि वर्षाणि सप्त वै
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु सप्त तानि नदीभेदैर् अगम्यानि परस्परम्
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः इमं हैमवतं वर्षं भारतं नाम विश्रुतम्
हेमकूटं परं तस्मान् नाम्ना किम्पुरुषं स्मृतम् हेमकूटाच्च निषधं हरिवर्षं तदुच्यते
हरिवर्षात्परं चापि मेरोस्तु तदिलावृतम् इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्
रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम् हिरण्यकात्परं चैव शृङ्गशाकंकुरं स्मृतम्
धनुःसंस्थे तु विज्ञेये देवर्षे दक्षिणोत्तरे दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम्
पूर्वतो निषधस्येदं वेद्यर्धं दक्षिणं स्मृतम् परं त्विलावृतं पश्चाद् वेद्यर्धं तु तदुत्तरम्
तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
उदगायतो महाशैलो माल्यवान्नाम पर्वतः द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः
माल्यवान्वै सहस्रैक आ नीलनिषधायतः द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः चातुर्वर्ण्यसमो वर्णैश् चतुरस्रः समुच्छ्रितः
नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम् उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः प्रविष्टः षोडशाधस्ताद् अष्टाविंशतिविस्तृतः
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
भुवनैरावृतः सर्वैर् जातरूपपरिष्कृतैः तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः शैलराजे प्रमोदन्ते सर्वतो ऽप्सरसां गणैः
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः