यस्त्विदं कल्य उत्थाय माहात्म्यं पठते नरः प्रयागं स्मरते नित्यं स याति परमं पदम् मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
मम वाक्यं च कर्तव्यं महाराज ब्रवीम्यहम् नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः
प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं न संशयः
प्रयागमनुगच्छेद्वा वसते वापि यो नरः सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अकोपनश्च सत्यश्च सत्यवादी दृढव्रतः आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासम्भारविस्तराः प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वै नरैः क्वचित्
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर तुल्यो यज्ञफलैः पुण्यैस् तन्निबोध युधिष्ठिर
ऋषीणां परमं गुह्यम् इदं भरतसत्तम तीर्थानुगमनं पुण्यं यज्ञेभ्यो ऽपि विशिष्यते
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ
स्वस्थो भव महाराज भुङ्क्ष्व राज्यमकण्टकम् पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः
इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः युधिष्ठिरस्य नृपतेस् तत्रैवान्तरधीयत
ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः यथोक्तेनाथ विधिना परां निर्वृतिमागमत्
तथा त्वमपि देवर्षे प्रयागाभिमुखो भव अभिषेकं तु कृत्वाद्य कृतकृत्यो भविष्यसि
एवमुक्त्वाथ नन्दीशस् तत्रैवान्तरधीयत नारदो ऽपि जगामाशु प्रयागाभिमुखस्तथा
तत्र स्नात्वा च जप्त्वा च विधिदृष्टेन कर्मणा दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा
कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः
महाभूमिप्रमाणं च लोकालोकस्तथैव च पर्याप्तिं परिमाणं च गतिश्चन्द्रार्कयोस्तथा
एतद्ब्रवीहि नः सर्वं विस्तरेण यथार्थवित् त्वदुक्तमेतत्सकलं श्रोतुमिच्छामहे वयम्
द्वीपभेदसहस्राणि सप्त चान्तर्गतानि च न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत्
सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते
अचिन्त्याः खलु ये भावास् तांस्तु तर्केण साधयेत् प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्
सप्त वर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम् विस्तरं मण्डलं यच्च योजनैस्तान्निबोधत
योजनानां सहस्राणि शतं द्वीपस्य विस्तरः नानाजनपदाकीर्णं पुरैश्च विविधैः शुभैः
सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः
पर्वतप्रभवाभिश्च नदीभिस्तु समन्ततः प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्
सर्वतः सुमुखश्चापि निषधः पर्वतो महान् चातुर्वर्ण्यस्तु सौवर्णो मेरुश्चोल्बमयः स्मृतः चतुर्विंशत्सहस्राणि विस्तीर्णः स चतुर्दिशम्
वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः नानावर्णैः समः पार्श्वैः प्रजापतिगुणान्वितः