एवं ज्ञानं च योगश्च तीर्थं चैव युधिष्ठिर बहुक्लेशेन युज्यन्ते तेन यान्ति परां गतिम् त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्
शृणु राजन्प्रयागे तु प्रोक्तं सर्वमिदं जगत् ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः
ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत् तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः
कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् तदा प्रयागतीर्थं च न कदाचिद्विनश्यति
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति यत्नेनानेन तिष्ठन्ति ते यान्ति परमां गतिम्
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः
प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः कारणं तत्प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् तिष्ठन्ति रक्षणायात्र पापकर्मनिवारणात्
उत्तरेण प्रतिष्ठानाच् छद्मना ब्रह्म तिष्ठति वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति
माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्
यस्मिञ्जुह्वन्स्वकं पापं नरकं च न पश्यति एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम्
ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर यत् पृथिवी तत्समाश्रित्य निर्मिता दैवतैस् त्रिभिः
प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् एतत्पुण्यं पवित्रं वै प्रयागं च युधिष्ठिर स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो ऽनघ
भ्रातृभिः सहितः सर्वैर् द्रौपद्या सह भार्यया ब्राह्मणेभ्यो नमस्कृत्य गुरून्देवानतर्पयत्
वासुदेवो ऽपि तत्रैव क्षणेनाभ्यागतस्तदा पाण्डवैः सहितैः सर्वैः पूज्यमानस्तु माधवः
कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः
एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत्
युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितो ऽवसत् महादानं ततो दत्त्वा धर्मपुत्रो महामनाः
यस्त्विदं कल्य उत्थाय माहात्म्यं पठते नरः प्रयागं स्मरते नित्यं स याति परमं पदम् मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
मम वाक्यं च कर्तव्यं महाराज ब्रवीम्यहम् नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः
प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं न संशयः
प्रयागमनुगच्छेद्वा वसते वापि यो नरः सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अकोपनश्च सत्यश्च सत्यवादी दृढव्रतः आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासम्भारविस्तराः प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वै नरैः क्वचित्
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर तुल्यो यज्ञफलैः पुण्यैस् तन्निबोध युधिष्ठिर
ऋषीणां परमं गुह्यम् इदं भरतसत्तम तीर्थानुगमनं पुण्यं यज्ञेभ्यो ऽपि विशिष्यते