एवं योगं च धर्मं च दातारं च युधिष्ठिर यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् निरुक्तं तु प्रवक्ष्यामि यथाह स्वयमंशुमान्
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम्
गया च चैत्रकं चैव गङ्गासागरमेव च एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पराः प्रयागे संस्थिता नित्यम् एवमाहुर्मनीषिणः
त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता यमुना गङ्गया सार्धं संगता लोकभाविनी
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् प्रयागं राजशार्दूल कलां नार्हति षोडशीम्
तिस्रः कोट्यो ऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता
प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर प्रजापतिम् उपासन्ते ऋषयश्च तपोधनाः
यजन्ते क्रतुभिर् देवास् तथा चक्रधरा नृपाः ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः
यत्र गङ्गा महाभागा स देशस्तत्तपोधनम् सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमन्वितम्
इदं सत्यं विजानीयात् साधूनामात्मनश्च वै सुहृदश्च जपेत्कर्णे शिष्यस्यानुगतस्य च
इदं धन्यमिदं स्वर्ग्यम् इदं सत्यमिदं सुखम् इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम्
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् अधीत्य च द्विजो ऽप्येतन् निर्मलः स्वर्गमाप्नुयात्
य इदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः जातिस्मरत्वं लभते नाकपृष्ठे च मोदते
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव
त्वया च सम्यक्पृष्टेन कथितं वै मया विभो पितरस्तारिताः सर्वे तथैव च पितामहाः
व्रतं दानं तपस्तीर्थं यागाः सर्वे सदक्षिणाः योगाः सांख्यं सदाचारो ये चान्ये ज्ञानहेतवः प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम्
एवं ज्ञानं च योगश्च तीर्थं चैव युधिष्ठिर बहुक्लेशेन युज्यन्ते तेन यान्ति परां गतिम् त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्
शृणु राजन्प्रयागे तु प्रोक्तं सर्वमिदं जगत् ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः
ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत् तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः
कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् तदा प्रयागतीर्थं च न कदाचिद्विनश्यति
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति यत्नेनानेन तिष्ठन्ति ते यान्ति परमां गतिम्
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः
प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः कारणं तत्प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् तिष्ठन्ति रक्षणायात्र पापकर्मनिवारणात्
उत्तरेण प्रतिष्ठानाच् छद्मना ब्रह्म तिष्ठति वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति