गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् किमर्थमल्पयोगेन बहु धर्मं प्रशंससि एतन्मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम्
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् नरस्याश्रद्दधानस्य पापोपहतचेतसः
अश्रद्दधानो ह्यशुचिर् दुर्मतिस्त्यक्तमङ्गलः एते पातकिनः सर्वे तेनेदं भाषितं त्वया
शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् प्रत्यक्षं च परोक्षं च यथान्यस्तं भविष्यति
यथैवान्यददृष्टं च यथादृष्टं यथाश्रुतम् शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः
क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः
यथा योगसहस्रेण योगो लभ्येत मानवैः यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति
तेन दानेन दत्तेन योगं नाभ्येति मानवः प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा
प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र दृश्यते
ब्राह्मणे वास्ति यत्किंचिद् अब्राह्मम् इति वोच्यते एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते
तथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर
ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् तीर्थराजम् अनुप्राप्य न चान्यत्किंचिदर्हति
को हि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर यथा पुण्यतमं चास्ति तथैव कथितं मया
श्रुतं चेदं त्वया प्रोक्तं विस्मितो ऽहं पुनः पुनः कथं योगेन तत्प्राप्तिः स्वर्गवासस्तु कर्मणा
दाता वै लभते भोगान् गां च यत्कर्मणः फलम् तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही
शृणु राजन्महाबाहो यथोक्तकरणं महीम् गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः
मातरं पितरं चैव ये निन्दन्ति नराधमाः न तेषामूर्ध्वगमनम् इदमाह प्रजापतिः
एवं योगस्य सम्प्राप्तिस्थानं परमदुर्लभम् गच्छन्ति नरकं घोरं ये नराः पापकर्मिणः
हस्त्यश्वं गाम् अनड्वाहं मणिमुक्तादिकाञ्चनम् परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति
न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः अनेनकर्मणा युक्ताः पच्यन्ते नरके पुनः
एवं योगं च धर्मं च दातारं च युधिष्ठिर यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् निरुक्तं तु प्रवक्ष्यामि यथाह स्वयमंशुमान्
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम्
गया च चैत्रकं चैव गङ्गासागरमेव च एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पराः प्रयागे संस्थिता नित्यम् एवमाहुर्मनीषिणः
त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता यमुना गङ्गया सार्धं संगता लोकभाविनी
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् प्रयागं राजशार्दूल कलां नार्हति षोडशीम्
तिस्रः कोट्यो ऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता
प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर प्रजापतिम् उपासन्ते ऋषयश्च तपोधनाः