सवर्णत्वाच्च सावर्णिर् मनोर्वैवस्वतस्य च ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु
छायायां जनयामास संज्ञेयमिति भास्करः छाया स्वपुत्रे ऽभ्यधिकं स्नेहं चक्रे मनौ तथा
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः संतर्जयामास तदा पादमुद्यम्य दक्षिणम्
शशाप च यमं छाया सक्षतः कृमिसंयुतः पादो ऽयमेको भविता पूयशोणितविस्रवः
निवेदयामास पितुर् यमः शापादमर्षितः निष्कारणमहं शप्तो मात्रा देव सकोपया
बालभावान्मया किंचिद् उद्यतश् चरणः सकृत् मनुना वार्यमाणापि मम शापम् अदाद् विभो
प्रायो न माता सास्माकं शापेनाहं यतो हतः देवो ऽप्याह यमं भूयः किं करोमि महामते
मौर्ख्यात्कस्य न दुःखं स्याद् अथवा कर्मसंततिः अनिवार्या भवस्यापि का कथान्येषु जन्तुषु
कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति क्लेदं च रुधिरं चैव वत्सायम् अपनेष्यति
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः गोकर्णतीर्थे वैराग्यात् फलपत्त्रानिलाशनः
आराधयन्महादेवं यावद्वर्षायुतायुतम् वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा
वव्रे स लोकपालत्वं पितृलोके नृपालयम् धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम्
एवं स लोकपालत्वम् अगमच्छूलपाणिनः पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम् त्वष्टुः समीपमगमद् आचचक्षे च रोषवान्
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः तवासहन्ती भगवन् महस्तीव्रं तमोनुदम्
वडबारूपम् आस्थाय मत्सकाशम् इहागता निवारिता मया सा नु त्वया चैव दिवाकर
यस्माद् अविज्ञाततया मत्सकाशम् इहागता तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि
एवमुक्ता जगामाथ मरुदेशमनिन्दिता वडबारूपम् आस्थाय भूतले सम्प्रतिष्ठिता
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम् अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर
रूपं तव करिष्यामि लोकानन्दकरं प्रभो तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम्
पृथक्चकार तत्तेजश् चक्रं विष्णोर् अकल्पयत् त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम्
दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम् रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्
न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः अर्चास्वपि ततः पादौ न कश्चित्कारयेत् क्वचित्
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम् कुष्ठरोगमवाप्नोति लोके ऽस्मिन्दुःखसंयुतः
तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः
ततः स भगवान्गत्वा भूर्लोकम् अमराधिपः कामयामास कामार्तो मुख एव दिवाकरः
अश्वरूपेण महता तेजसा च समावृतः संज्ञा च मनसा क्षोभम् अगमद्भयविह्वला
नासापुटाभ्यामुत्सृष्टं परो ऽयमिति शङ्कया तद्रेतसस् ततो जाताव् अश्विनाव् इति निश्चितम्
दस्रौ सुतत्वात् संजातौ नासत्यौ नासिकाग्रतः ज्ञात्वा चिराच्च तं देवं संतोषम् अगमत् परम्
विमानेनागमत्स्वर्गं पत्या सह मुदान्विता सावर्णो ऽपि मनुर् मेराव् अद्याप्यास्ते तपोधनः शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः