पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् प्रविष्टमात्रे तद्भूमाव् अश्वमेधः पदे पदे
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत्
एवं ज्ञात्वा तु राजेन्द्र सदा सेवापरो भवेत् अश्रद्दधानाः पुरुषाः पापोपहतचेतसः न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम्
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत्
विक्रयः सर्वभाण्डानां कार्याकार्यमजानतः प्रयागे का गतिस्तस्य तन्मे ब्रूहि पितामह
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् मासमेकं तु यः स्नायात् प्रयागे नियतेन्द्रियः मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्
विश्रम्भघातकानां तु प्रयागे शृणु यत्फलम् त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः
अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् सर्वकामसमृद्धस्तु स्वर्गलोके महीयते स्थानं च लभते नित्यं धनधान्यसमाकुलम्
एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् तारिताः पितरस्तेन नरकात्प्रपितामहाः
धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम्
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् प्रीतो ऽस्म्यनुगृहीतो ऽस्मि दर्शनादेव ते मुने
त्वद्दर्शनात्तु धर्मात्मन् मुक्तो ऽहं चाद्य किल्बिषात् इदानीं वेद्मि चात्मानं भगवन्गतकल्मषम्
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम्
यमुनायां तु किं पुण्यं किं फलं तु महामुने एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम्
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता समाख्याता महाभागा यमुना तत्र निम्नगा
येनैव निःसृता गङ्गा तेनैव यमुना गता योजनानां सहस्रेषु कीर्तनात्पापनाशिनी
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् प्राणांस्त्यजति यस्तत्र स याति परमां गतिम्
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम्
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः एवं तीर्थसहस्राणि यमुनादक्षिणे तटे
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः
उपासते स्म संध्यां ये त्रिकालं हि युधिष्ठिर देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधा जनाः
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः तेषु स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
गङ्गा च यमुना चैव उभे तुल्यफले स्मृते केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते
एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
यस्त्विमं कल्य उत्थाय पठते च शृणोति च मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे तीर्थानां तु सहस्राणि शतानि नियुतानि च सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता
सोमतीर्थं महापुण्यं महापातकनाशनम् स्नानमात्रेण राजेन्द्र पुरुषांस्तारयेच्छतम् तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्
पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
सर्वाणि तानि संत्यज्य कथमेकं प्रशंससि अप्रमाणं तु तत्रोक्तम् अश्रद्धेयमनुत्तमम्