यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् स भुक्त्वा विपुलान्भोगांस् तत्तीर्थं स्मरते पुनः
जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः
सोमलोकमवाप्नोति सोमेन सह मोदते षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
स्वर्गे च शक्रलोके ऽस्मिन् नृषिगन्धर्वसेविते परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालाम् ऊर्ध्वपादः पिबेन्नरः शतवर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र सो ऽग्निहोत्री भवेन्नरः भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः
यः स्वदेहं तु कर्तित्वा शकुनिभ्यः प्रयच्छति विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः
गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम्
एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत्
एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम् विशुद्धं मे ऽद्य हृदयं प्रयागस्य तु कीर्तनात्
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् यं च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः
शृणु राजन्प्रयागे तु अनाशकफलं विभो प्राप्नोति पुरुषो धीमाञ् श्रद्दधानो जितेन्द्रियः
अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः अश्वमेधफलं तस्य गच्छतस्तु पदे पदे
कुलानि तारयेद्राजन् दश पूर्वान्दशापरान् मुच्यते सर्वपापेभ्यो गच्छेत्तु परमं पदम्
महाभाग्यं हि धर्मस्य यत्त्वं वदसि मे प्रभो अल्पेनैव प्रयत्नेन बहून्धर्मानवाप्नुते
अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह इमं मे संशयं छिन्द्धि परं कौतूहलं हि मे
शृणु राजन्महावीर यदुक्तं ब्रह्मयोनिना ऋषीणां संनिधौ पूर्वं कथ्यमानं मया श्रुतम्
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् प्रविष्टमात्रे तद्भूमाव् अश्वमेधः पदे पदे
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत्
एवं ज्ञात्वा तु राजेन्द्र सदा सेवापरो भवेत् अश्रद्दधानाः पुरुषाः पापोपहतचेतसः न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम्
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत्
विक्रयः सर्वभाण्डानां कार्याकार्यमजानतः प्रयागे का गतिस्तस्य तन्मे ब्रूहि पितामह
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् मासमेकं तु यः स्नायात् प्रयागे नियतेन्द्रियः मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्
विश्रम्भघातकानां तु प्रयागे शृणु यत्फलम् त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः
अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् सर्वकामसमृद्धस्तु स्वर्गलोके महीयते स्थानं च लभते नित्यं धनधान्यसमाकुलम्
एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् तारिताः पितरस्तेन नरकात्प्रपितामहाः
धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम्