चतुर्वेदेषु यत्पुण्यं यत्पुण्यं सत्यवादिषु अहिंसायां तु यो धर्मो गमनादेव तत्फलम्
कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन संगता
यत्र गङ्गा महाभागा बहुतीर्था तपोधना सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान् नागांस्तारयते ऽप्यधः दिवि तारयते देवांस् तेन त्रिपथगा स्मृता
यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् तीर्थानां तु परं तीर्थं नदीनां तु महानदी मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
सर्वेषामेव भूतानां पापोपहतचेतसाम् गतिम् अन्विष्यमाणानां नास्ति गङ्गासमा गतिः
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा
कृते तु नैमिषं क्षेत्रं त्रेतायां पुष्करं परम् द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते
गङ्गामेव निषेवेत प्रयागं तु विशेषतः नान्यत्कलियुगे घोरे भेषजं नृप विद्यते
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात्
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः स तत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः
अकामो वा सकामो वा गङ्गायां यो ऽभिपद्यते मृतस्तु लभते स्वर्गं नरकं च न पश्यति
अप्सरोगणसंगीतैः सुप्तो ऽसौ प्रतिबुध्यते हंससारसयुक्तेन विमानेन स गच्छति बहुवर्षसहस्राणि स्वर्गं राजेन्द्र भुञ्जति
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः माघमासे गमिष्यन्ति गङ्गायमुनसंगमम्
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् प्रयागे माघमासे तु त्र्यहस्नानात्तु तत्फलम्
गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत् अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः
यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् स भुक्त्वा विपुलान्भोगांस् तत्तीर्थं स्मरते पुनः
जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः
सोमलोकमवाप्नोति सोमेन सह मोदते षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
स्वर्गे च शक्रलोके ऽस्मिन् नृषिगन्धर्वसेविते परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालाम् ऊर्ध्वपादः पिबेन्नरः शतवर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र सो ऽग्निहोत्री भवेन्नरः भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः
यः स्वदेहं तु कर्तित्वा शकुनिभ्यः प्रयच्छति विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः
गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः