सागराः सरितः शैला नागा विद्याधराश्च ये हरिश्च भगवनास्ते प्रजापतिपुरःसरः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः
न देववचनात्तात न लोकवचनात्तथा मतिर् उत्क्रमणीया ते प्रयागगमनं प्रति
दश तीर्थसहस्राणि षष्टिकोट्यस्तथा पराः तेषां सांनिध्यमत्रैव ततस्तु कुरुनन्दन
या गतिर् योगयुक्तस्य सत्यस्थस्य मनीषिणः सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे
न ते जीवन्ति लोके ऽस्मिंस् तत्र तत्र युधिष्ठिर ये प्रयागं न सम्प्राप्तास् त्रिषु लोकेषु वञ्चिताः
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा
कम्बलाश्वतरौ नागौ विपुले यमुनातटे तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते
तत्र गत्वा च संस्थानं महादेवस्य विश्रुतम् नरस्तारयते सर्वान् दश पूर्वान्दशापरान्
कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत् स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम्
पूर्वपार्श्वे तु गङ्गायास् त्रिषु लोकेषु भारत कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम्
ब्रह्मचारी जितक्रोधस् त्रिरात्रं यदि तिष्ठति सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत्
उत्तरेण प्रतिष्ठानाद् भागीरथ्यास्तु पूर्वतः हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्
अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते
उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे परित्यजति यः प्राणाञ् शृणु तस्यापि यत्फलम्
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च सेव्यते पितृभिः सार्धं स्वर्गलोके नराधिप
उर्वशीं तु सदा पश्येत् स्वर्गलोके नरोत्तम पूज्यते सततं पुत्र ऋषिगन्धर्वकिंनरैः
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः उर्वशीसदृशीनां तु कन्यानां लभते शतम्
मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् दशग्रामसहस्राणां भोक्ता भवति भूमिपः
काञ्चीनूपुरशब्देन सुप्तो ऽसौ प्रतिबुध्यते भुक्त्वा तु विपुलान् भोगांस् तत्तीर्थं भजते पुनः
शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः एकं कालं तु भुञ्जानो मासं भूमिपतिर्भवेत्
सुवर्णालंकृतानां तु नारीणां लभते शतम् पृथिव्याम् आसमुद्रायां महाभूमिपतिर्भवेत्
धनधान्यसमायुक्तो दाता भवति नित्यशः भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं लभते पुनः
अथ संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः उपवासी शुचिः संध्यां ब्रह्मलोकमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् कोटिवर्षसहस्राणां स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः सुवर्णमणिमुक्ताढ्यकुले जायेत रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु दशाश्वमेधकं नाम तीर्थं तत्रापरं भवेत्
कृताभिषेकस्तु नरः सो ऽश्वमेधफलं लभेत् धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः