येषां यत्र रुचिस्तत्तद् देयं तेभ्यो विजानता यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम्
दुहितृत्वं गता यस्मात् पृथोर्धर्मवतो मही तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः
आदित्यवंशमखिलं वद सूत यथाक्रमम् सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि
विवस्वान्कश्यपात् पूर्वम् अदित्यामभवत् सुतः तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम् प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्
यमश्च यमुना चैव यमलौ तु बभूवतुः ततस्तेजोमयं रूपम् असहन्ती विवस्वतः
नारीमुत्पादयामास स्वशरीरादनिन्दिताम् त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी
पुरतः संस्थितां दृष्ट्वा संज्ञा तां प्रत्यभाषत छाये तं भज भर्तारम् अस्मदीयं वरानने
अपत्यानि मदीयानि मातृस्नेहेन पालय तथेत्युक्त्वा तु सा देवम् अगमत् क्वापि सुव्रता
कामयामास देवो ऽपि संज्ञेयमिति चादरात् जनयामास तस्यां तु पुत्रं च मनुरूपिणम्
सवर्णत्वाच्च सावर्णिर् मनोर्वैवस्वतस्य च ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु
छायायां जनयामास संज्ञेयमिति भास्करः छाया स्वपुत्रे ऽभ्यधिकं स्नेहं चक्रे मनौ तथा
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः संतर्जयामास तदा पादमुद्यम्य दक्षिणम्
शशाप च यमं छाया सक्षतः कृमिसंयुतः पादो ऽयमेको भविता पूयशोणितविस्रवः
निवेदयामास पितुर् यमः शापादमर्षितः निष्कारणमहं शप्तो मात्रा देव सकोपया
बालभावान्मया किंचिद् उद्यतश् चरणः सकृत् मनुना वार्यमाणापि मम शापम् अदाद् विभो
प्रायो न माता सास्माकं शापेनाहं यतो हतः देवो ऽप्याह यमं भूयः किं करोमि महामते
मौर्ख्यात्कस्य न दुःखं स्याद् अथवा कर्मसंततिः अनिवार्या भवस्यापि का कथान्येषु जन्तुषु
कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति क्लेदं च रुधिरं चैव वत्सायम् अपनेष्यति
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः गोकर्णतीर्थे वैराग्यात् फलपत्त्रानिलाशनः
आराधयन्महादेवं यावद्वर्षायुतायुतम् वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा
वव्रे स लोकपालत्वं पितृलोके नृपालयम् धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम्
एवं स लोकपालत्वम् अगमच्छूलपाणिनः पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम् त्वष्टुः समीपमगमद् आचचक्षे च रोषवान्
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः तवासहन्ती भगवन् महस्तीव्रं तमोनुदम्
वडबारूपम् आस्थाय मत्सकाशम् इहागता निवारिता मया सा नु त्वया चैव दिवाकर
यस्माद् अविज्ञाततया मत्सकाशम् इहागता तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि
एवमुक्ता जगामाथ मरुदेशमनिन्दिता वडबारूपम् आस्थाय भूतले सम्प्रतिष्ठिता
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम् अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर
रूपं तव करिष्यामि लोकानन्दकरं प्रभो तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम्