आकाशमूष्मणा तप्तं भविष्यति परंतप ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम्
संवर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः
अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम् समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः
एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम् वेदनावमिमां गृह्य सत्त्वबीजानि सर्वशः
आरोप्य रज्जुयोगेन मत्प्रदत्तेन सुव्रत संयम्य नावं मच्छृङ्गे मत्स्यभावाभिरक्षितः
एकः स्थास्यसि देवेषु दग्धेष्वपि परंतप सोमसूर्यावहं ब्रह्मा चतुर्लोकसमन्वितः
नर्मदा च नदी पुण्या मार्कण्डेयो महानृषिः भवो वेदाः पुराणानि विद्याभिः सर्वतोवृतम्
त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये
वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते एवमुक्त्वा स भगवांस् तत्रैवान्तरधीयत
मनुर् अप्यास्थितो योगं वासुदेवप्रसादजम् अभ्यसन् यावद् आभूतसम्प्लवं पूर्वसूचितम्
काले यथोक्ते संजाते वासुदेवमुखोद्गते शृङ्गी प्रादुर्बभूवाथ मत्स्यरूपी जनार्दनः
भुजंगो रज्जुरूपेण मनोः पार्श्वमुपागमत् भूतान्सर्वान्समाकृष्य योगेनारोप्य धर्मवित्
भुजंगरज्ज्वा मत्स्यस्य शृङ्गे नावमयोजयत् उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम्
आभूतसम्प्लवे तस्मिन्न् अतीते योगशायिना पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा तदिदानीं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः
यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहं द्विजाः तद् एवैकार्णवे तस्मिन् मनुः पप्रच्छ केशवम्
उत्पत्तिं प्रलयं चैव वंशान्मन्वन्तराणि च वंश्यानुचरितं चैव भुवनस्य च विस्तरम्
दानधर्मविधिं चैव श्राद्धकल्पं च शाश्वतम् वर्णाश्रमविभागं च तथेष्टापूर्तसंज्ञितम्
देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि तत्सर्वं विस्तरेण त्वं धर्मं व्याख्यातुमर्हसि
महाप्रलयकालान्त एतदासीत्तमोमयम् प्रसुप्तमिव चातर्क्यम् अप्रज्ञातमलक्षणम्
अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च ततः स्वयम्भूर् अव्यक्तः प्रभवः पुण्यकर्मणाम्
व्यञ्जयन्नेतदखिलं प्रादुरासीत् तमोनुदः यो ऽतीन्द्रियः परो व्यक्ताद् अणुर् ज्यायान् सनातनः नारायण इति ख्यातः स एकः स्वयम् उद्बभौ
यः शरीराद् अभिध्याय सिसृक्षुर्विविधं जगत् अप एव ससर्जादौ तासु वीर्यम् अवासृजत्
तदेवाण्डं समभवद् धेमरूप्यमयं महत् संवत्सरसहस्रेण सूर्यायुतसमप्रभम्
प्रविश्यान्तर्महातेजाः स्वयम् एवात्मसम्भवः प्रभावाद् अपि तद्व्याप्त्या विष्णुत्वम् अगमत् पुनः
तदन्तर्भगवानेष सूर्यः समभवत्पुरा आदित्यश्चादिभूतत्वाद् ब्रह्मा ब्रह्म पठन्न् अभूत्
दिवं भूमिं समकरोत् तदण्डशकलद्वयम् स चाकरोद्दिशः सर्वा मध्ये व्योम च शाश्वतम्
नद्यो ऽण्डनाम्नः संभूताः पितरो मनवस् तथा सप्त ये ऽमी समुद्राश् च ते ऽपि चान्तर्जलोद्भवाः लवणेक्षुसुराद्याश् च नानारत्नसमन्विताः
स सिसृक्षुर् अभूद् देवः प्रजापतिर् अरिन्दम तत्तेजसश् च तत्रैष मार्तण्डः समजायत
मृते ऽण्डे जायते यस्मान् मार्तण्डस् तेन संस्मृतः रजोगुणमयं यत्तद् रूपं तस्य महात्मनः चतुर्मुखः स भगवान् अभूल् लोकपितामहः
येन सृष्टं जगत् सर्वं सदेवासुरमानुषम् तमवेहि रजोरूपं महत् सत्त्वम् उदाहृतम्