यत्रासौ लभते जन्म सा गौस्तस्याभिजायते न च पश्यति तं घोरं नरकं तेन कर्मणा उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम्
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रति तारयेत्
तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते दुर्गमे विषमे घोरे महापातकसम्भवे गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे
यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया तथा तथा प्रमुच्ये ऽहं सर्वपापैर्न संशयः
भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः प्रयागे यो विधिः प्रोक्तस् तन्मे ब्रूहि महामुने
कथयिष्यामि ते राजंस् तीर्थयात्राविधिक्रमम् आर्षेण विधिनानेन यथादृष्टं यथाश्रुतम्
प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
नरके वसते घोरे गवां क्रोष्टा हि दारुणे सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत्तथा यथात्मना तथा सर्वं दानं विप्रेषु दापयेत्
ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत्
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति आर्षेणैव विवाहेन यथाविभवसम्भवम्
न स पश्यति तं घोरं नरकं तेन कर्मणा उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान्
तत्र दानं प्रकर्तव्यं यथाविभवसम्भवम् तेन तीर्थफलं चैव वर्धते नात्र संशयः स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम्
वटमूलं समासाद्य यस्तु प्राणान्विमुञ्चति सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति
तत्र ते द्वादशादित्यास् तपन्ति रुद्रसंश्रिताः निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते
नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत् स्थीयते तत्र वै विष्णुर् यजमानः पुनः पुनः
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमम्
ततो गच्छेत राजेन्द्र प्रयागं संस्तुवंश्च यत् यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
लोकपालाश्च साध्याश्च पितरो लोकसंमताः सनत्कुमारप्रमुखास् तथैव परमर्षयः
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे तथा नागाः सुपर्णाश्च सिद्धाश्च खेचराश्च ये
सागराः सरितः शैला नागा विद्याधराश्च ये हरिश्च भगवनास्ते प्रजापतिपुरःसरः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः
न देववचनात्तात न लोकवचनात्तथा मतिर् उत्क्रमणीया ते प्रयागगमनं प्रति
दश तीर्थसहस्राणि षष्टिकोट्यस्तथा पराः तेषां सांनिध्यमत्रैव ततस्तु कुरुनन्दन
या गतिर् योगयुक्तस्य सत्यस्थस्य मनीषिणः सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे
न ते जीवन्ति लोके ऽस्मिंस् तत्र तत्र युधिष्ठिर ये प्रयागं न सम्प्राप्तास् त्रिषु लोकेषु वञ्चिताः
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा
कम्बलाश्वतरौ नागौ विपुले यमुनातटे तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते