तं वटं रक्षति सदा शूलपाणिर्महेश्वरः स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्
अधर्मेणावृतो लोको नैव गच्छति तत्पदम् स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्
दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते
पञ्च कुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी प्रयागस्य प्रवेशे तु पापं नश्यति तत्क्षणात्
योजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः अपि दुष्कृतकर्मा तु लभते परमां गतिम्
कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम्
सत्यवादी जितक्रोधो ह्य् अहिंसायां व्यवस्थितः धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः
गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् मनसा चिन्तयन्कामान् अवाप्नोति सुपुष्कलान्
ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ब्रह्मचारी वसेन्मासं पितॄन्देवांश्च तर्पयेत् ईप्सितांल्लभते कामान् यत्र यत्राभिजायते
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता समागता महाभागा यमुना तत्र निम्नगा तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः
दुष्प्राप्यं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर देवदानवगन्धर्वा ऋषयः सिद्धचारणाः तदुपस्पृश्य राजेन्द्र स्वर्गलोकमुपासते
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम् स्थानमुक्तं प्रयागं तु नाख्येयं तु कदाचन
व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत्
दीप्तकाञ्चनवर्णाभैर् विमानैः सूर्यसंनिभैः गन्धर्वाप्सरसां मध्ये स्वर्गे क्रीडति मानवः
ईप्सितांल्लभते कामान् वदन्ति ऋषिपुंगवाः सर्वरत्नमयैर्दिव्यैर् नानाध्वजसमाकुलैः वराङ्गनासमाकीर्णैर् मोदते शुभलक्षणैः
गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते यावन्न स्मरते जन्म तावत्स्वर्गे महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति
देशस्थो यदि वारण्ये विदेशस्थो ऽथवा गृहे प्रयागं स्मरमाणो ऽपि यस्तु प्राणान्परित्यजेत् ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुंगवाः
सर्वकामफला वृक्षा मही यत्र हिरण्मयी ऋषयो मुनयः सिद्धास् तत्र लोके स गच्छति
स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे मोदते ऋषिभिः सार्धं सुकृतेनेह कर्मणा
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्
ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः गुणवान्वित्तसम्पन्नो भवतीह न संशयः
कर्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति
सुवर्णमणिमुक्ताश्च यदि वान्यत्परिग्रहम् स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा सफलं तस्य तत्तीर्थं यथावत्पुण्यमाप्नुयात्
एवं तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च निमित्तेषु च सर्वेषु ह्य् अप्रमत्तो भवेद्द्विजः
कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम्
प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम्
सा गौस्तस्मै प्रदातव्या गङ्गायमुनसंगमे वासांसि च महार्हाणि रत्नानि विविधानि च
यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम तावद्वर्षसहस्राणि स्वर्गलोके महीयते