द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् त्वां द्रष्टुकामो मार्कण्डेयो द्वारि तिष्ठत्यसौ मुनिः त्वरितो धर्मपुत्रस्तु द्वारमागादतः परम्
स्वागतं ते महाभाग स्वागतं ते महामुने अद्य मे सफलं जन्म अद्य मे तारितं कुलम्
अद्य मे पितरस्तुष्टास् त्वयि दृष्टे महामुने अद्याहं पूतदेहो ऽस्मि यत्त्वया सह दर्शनम्
सिंहासने समास्थाप्य पादशौचार्चनादिभिः युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्
ततः स तुष्टो मार्कण्डः पूजितश्चाह तं नृपम् आख्याहि त्वरितं राजन् किमर्थं रुदितं त्वया केन वा विक्लवीभूतः का बाधा ते किमप्रियम्
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने एतत्सर्वं विदित्वा तु चिन्तावशमुपागतः
शृणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम् नैव दृष्टं रणे पापं युध्यमानस्य धीमतः
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः तदेवं हृदयं कृत्वा तस्मात्पापं न चिन्तयेत्
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् पप्रच्छ विनयोपेतः सर्वपातकनाशनम्
पृच्छामि त्वां महाप्राज्ञ नित्यं त्रैलोक्यदर्शिनम् कथय त्वं समासेन येन मुच्येत किल्बिषात्
शृणु राजन्महाबाहो सर्वपातकनाशनम् प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम्
भगवञ्छ्रोतुमिच्छामि पुरा कल्पे यथास्थितम् ब्रह्मणा देवमुख्येन यथावत्कथितं मुने
कथं प्रयागगमनं नराणां तत्र कीदृशम् मृतानां का गतिस्तत्र स्नातानां तत्र किं फलम्
ये वसन्ति प्रयागे तु ब्रूहि तेषां च किं फलम् एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे
कथयिष्यामि ते वत्स यच्छ्रेष्ठं तत्र यत्फलम् पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम्
आ प्रयागप्रतिष्ठानाद् आपुराद्वासुकेर्ह्रदात् कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम्
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः न शक्याः कथितुं राजन् बहुवर्षशतैरपि संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम्
षष्टिर्धनुःसहस्राणि यानि रक्षन्ति जाह्नवीम् यमुनां रक्षति सदा सविता सप्तवाहनः
प्रयागं तु विशेषेण सदा रक्षति वासवः मण्डलं रक्षति हरिर् दैवतैः सह संगतः
तं वटं रक्षति सदा शूलपाणिर्महेश्वरः स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्
अधर्मेणावृतो लोको नैव गच्छति तत्पदम् स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्
दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते
पञ्च कुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी प्रयागस्य प्रवेशे तु पापं नश्यति तत्क्षणात्
योजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः अपि दुष्कृतकर्मा तु लभते परमां गतिम्
कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम्
सत्यवादी जितक्रोधो ह्य् अहिंसायां व्यवस्थितः धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः
गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् मनसा चिन्तयन्कामान् अवाप्नोति सुपुष्कलान्
ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ब्रह्मचारी वसेन्मासं पितॄन्देवांश्च तर्पयेत् ईप्सितांल्लभते कामान् यत्र यत्राभिजायते
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता समागता महाभागा यमुना तत्र निम्नगा तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः