ततश्चाचम्य विधिवद् आलिखेत्पद्ममग्रतः अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम् अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानि कीर्तयेत्
नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे
नमस्ते शिव सर्वेश नमस्ते सर्ववत्सल जगत्स्वामिन्नमस्ते ऽस्तु दिव्यचन्दनभूषित
पद्मासन नमस्ते ऽस्तु कुण्डलाङ्गदभूषित नमस्ते सर्वलोकेश जगत्सर्वं विबोधसे
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग सत्यदेव नमस्ते ऽस्तु प्रसीद मम भास्कर
दिवाकर नमस्ते ऽस्तु प्रभाकर नमो ऽस्तु ते एवं सूर्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम् द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत्
अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम् मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः
भ्रातृशोकेन संतप्तश् चिन्तयन्स पुनः पुनः आसीत्सुयोधनो राजा एकादशचमूपतिः
अस्मान्संताप्य बहुशः सर्वे ते निधनं गताः वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः
हत्वा भीष्मं च द्रोणं च कर्णं चैव महाबलम् दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम्
राजानो निहताः सर्वे ये चान्ये शूरमानिनः किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
धिक् कष्टमिति संचित्य राजा वैक्लव्यभागतः निर्विचेष्टो निरुत्साहः किंचित् तिष्ठत्यधोमुखः
लब्धसंज्ञो यदा राजा चिन्तयन्स पुनः पुनः कतरो विनियोगो वा नियमं तीर्थमेव च
येनाहं शीघ्रम् आमुञ्चे महापातकिकिल्बिषात् यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम्
कथं पृच्छामि वै कृष्णं येनेदं कारितो ऽस्म्यहम् धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम्
व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः एवं वैक्लव्यमापन्नो धर्मराजो युधिष्ठिरः रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः
ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः कुन्ती च द्रौपदी चैव ये च तत्र समागताः भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः
वाराणस्यां मार्कण्डेयस् तेन ज्ञातो युधिष्ठिरः यथा वैक्लव्यमापन्नो रुदमानस्तु दुःखितः
अचिरेणैव कालेन मार्कण्डेयो महातपाः सम्प्राप्तो हास्तिनपुरं राजद्वारे ह्यतिष्ठत
द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् त्वां द्रष्टुकामो मार्कण्डेयो द्वारि तिष्ठत्यसौ मुनिः त्वरितो धर्मपुत्रस्तु द्वारमागादतः परम्
स्वागतं ते महाभाग स्वागतं ते महामुने अद्य मे सफलं जन्म अद्य मे तारितं कुलम्
अद्य मे पितरस्तुष्टास् त्वयि दृष्टे महामुने अद्याहं पूतदेहो ऽस्मि यत्त्वया सह दर्शनम्
सिंहासने समास्थाप्य पादशौचार्चनादिभिः युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्
ततः स तुष्टो मार्कण्डः पूजितश्चाह तं नृपम् आख्याहि त्वरितं राजन् किमर्थं रुदितं त्वया केन वा विक्लवीभूतः का बाधा ते किमप्रियम्
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने एतत्सर्वं विदित्वा तु चिन्तावशमुपागतः
शृणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम् नैव दृष्टं रणे पापं युध्यमानस्य धीमतः
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः तदेवं हृदयं कृत्वा तस्मात्पापं न चिन्तयेत्
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् पप्रच्छ विनयोपेतः सर्वपातकनाशनम्
पृच्छामि त्वां महाप्राज्ञ नित्यं त्रैलोक्यदर्शिनम् कथय त्वं समासेन येन मुच्येत किल्बिषात्