गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः वत्सं चैत्ररथं कृत्वा गन्धान्पद्मदले तथा
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च
औषधानि च दिव्यानि दोग्धा मेरुर्महाचलः वत्सो ऽभूद्धिमवांस् तत्र पात्रं शैलमयं पुनः
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् पालाशपात्रे दोग्धा तु शालः पुष्पलताकुलः
प्लक्षो ऽभवत्ततो वत्सः सर्ववृक्षो धनाधिपः एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम्
आयुर् धनानि सौख्यं च पृथौ राज्यं प्रशासति न दरिद्रस्तदा कश्चिन् न रोगी न च पापकृत्
नोपसर्गभयं किंचित् पृथौ राजनि शासति नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः
धनुष्कोट्या च शैलेन्द्रान् उत्सार्य स महाबलः भुवस्तलं समं चक्रे लोकानां हितकाम्यया
न पुरग्रामदुर्गाणि न चायुधधरा नराः क्षयातिशयदुःखं च नार्थशास्त्रस्य चादरः
धर्मैकवासना लोकाः पृथौ राज्यं प्रशासति कथितानि च पात्राणि यत्क्षीरं च मया तव
येषां यत्र रुचिस्तत्तद् देयं तेभ्यो विजानता यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम्
दुहितृत्वं गता यस्मात् पृथोर्धर्मवतो मही तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः
आदित्यवंशमखिलं वद सूत यथाक्रमम् सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि
विवस्वान्कश्यपात् पूर्वम् अदित्यामभवत् सुतः तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम् प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्
यमश्च यमुना चैव यमलौ तु बभूवतुः ततस्तेजोमयं रूपम् असहन्ती विवस्वतः
नारीमुत्पादयामास स्वशरीरादनिन्दिताम् त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी
पुरतः संस्थितां दृष्ट्वा संज्ञा तां प्रत्यभाषत छाये तं भज भर्तारम् अस्मदीयं वरानने
अपत्यानि मदीयानि मातृस्नेहेन पालय तथेत्युक्त्वा तु सा देवम् अगमत् क्वापि सुव्रता
कामयामास देवो ऽपि संज्ञेयमिति चादरात् जनयामास तस्यां तु पुत्रं च मनुरूपिणम्
सवर्णत्वाच्च सावर्णिर् मनोर्वैवस्वतस्य च ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु
छायायां जनयामास संज्ञेयमिति भास्करः छाया स्वपुत्रे ऽभ्यधिकं स्नेहं चक्रे मनौ तथा
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः संतर्जयामास तदा पादमुद्यम्य दक्षिणम्
शशाप च यमं छाया सक्षतः कृमिसंयुतः पादो ऽयमेको भविता पूयशोणितविस्रवः
निवेदयामास पितुर् यमः शापादमर्षितः निष्कारणमहं शप्तो मात्रा देव सकोपया
बालभावान्मया किंचिद् उद्यतश् चरणः सकृत् मनुना वार्यमाणापि मम शापम् अदाद् विभो
प्रायो न माता सास्माकं शापेनाहं यतो हतः देवो ऽप्याह यमं भूयः किं करोमि महामते
मौर्ख्यात्कस्य न दुःखं स्याद् अथवा कर्मसंततिः अनिवार्या भवस्यापि का कथान्येषु जन्तुषु
कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति क्लेदं च रुधिरं चैव वत्सायम् अपनेष्यति
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः गोकर्णतीर्थे वैराग्यात् फलपत्त्रानिलाशनः