दत्त्वा सितद्वितीयायाम् इन्दोर्लवणभाजनम् समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् कल्पान्ते राजराजः स्यात् सोमव्रतमिदं स्मृतम्
प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः वैश्वानरपदं याति शिवव्रतमिदं स्मृतम्
दशम्याम् एकभक्ताशी समान्ते दशधेनुदः दिशश्च काञ्चनैर्दद्याद् ब्रह्माण्डाधिपतिर्भवेत् एतद् विश्वव्रतं नाम महापातकनाशनम्
यः पठेच्छृणुयाद्वापि व्रतषष्टिम् अनुत्तमाम् मन्वन्तरशतं सो ऽपि गन्धर्वाधिपतिर्भवेत्
षष्टिव्रतं नारद पुण्यमेतत् तवोदितं विश्वजनीनमन्यत् श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयम् अस्ति
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् तीर्थं च कल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् नमो नारायणायेति मूलमन्त्र उदाहृतः
दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः प्रकल्प्यावाहयेद् गङ्गाम् एभिर्मन्त्रैर्विचक्षणः
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता पाहि नस् त्वेनसस् तस्माद् आजन्ममरणान्तिकात्
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुरब्रवीत् दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि
नन्दिनीत्येव ते नाम देवेषु नलिनीति च दक्षा पृथ्वी च विहगा विश्वकायामृता शिवा
विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी
सप्तवाराभिजप्तेन करसम्पुटयोजितः मूर्ध्नि कुर्याज्जलं भूयस् त्रिचतुष्पञ्चसप्तकम् स्नानं कुर्यान्मृदा तद्वद् आमन्त्र्य तु विधानतः
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्
उद्धृतासि वराहेण कृष्णेन शतबाहुना मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता आरुह्य मम गात्राणि सर्वं पापं प्रचोदय
मृत्तिके देहि नः पुष्टिं त्वयि सर्वं प्रतिष्ठितम् नमस्ते सर्वलोकानां प्रभवारणि सुव्रते
एवं स्नात्वा ततः पश्चाद् आचम्य च विधानतः उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै ततस्तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै
देवा यक्षास्तथा नागा गन्धर्वाप्सरसो ऽसुराः क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः
वाय्वाधारा जलाधारास् तथैवाकाशगामिनः निराधाराश्च ये जीवा ये तु धर्मरतास्तथा
तेषामाप्यायनायैतद् दीयते सलिलं मया कृतोपवीती देवेभ्यो निवीती च भवेत्ततः
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा सनकश्च सनन्दश्च तृतीयश्च सनातनः
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् प्रचेतसं वसिष्ठं च भृगुं नारदमेव च देवब्रह्मऋषीन् सर्वांस् तर्पयेद् अक्षतौदकैः
अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः
सुकालिनो बर्हिषदस् तथान्ये वाज्यपाः पुनः संतर्प्याः पितरो भक्त्या सतिलोदकचन्दनैः
यमाय धर्मराजाय मृत्यवे चान्तकाय च वैवस्वताय कालाय सर्वभृतक्षयाय च
औदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदराय चित्राय चित्रगुप्ताय वै नमः दर्भपाणिस्तु विधिना पितॄन्संतर्पयेद्बुधः
पित्रादीन्नामगोत्रेण तथा मातामहानपि संतर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत्
ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः ते तृप्तिमखिलां यान्तु यश् चास्मत्तो ऽभिवाञ्छति