चतुर्थ्यां नक्तभुग्दद्याद् अब्दान्ते हेमवारणम् व्रतं वैनायकं नाम शिवलोकफलप्रदम्
महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये हैमानि कार्त्तिके दद्याद् गोयुगेन समन्वितम् एतत् फलव्रतं नाम विष्णुलोकफलप्रदम्
यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् गाश्च वै शक्तितो दद्याद् धेमान्नघटसंयुताः एतत् सौरव्रतं नाम सूर्यलोकफलप्रदम्
द्वादश द्वादशीर्यस्तु समाप्योपोषणेन च गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्छक्तितो नरः परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम्
कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम्
कृच्छ्रान्ते गोप्रदः कुर्याद् भोजनं शक्तितः पदम् विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम्
चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम्
सप्तरात्रोषितो दद्याद् घृतकुम्भं द्विजातये घृतव्रतमिदं प्राहुर् ब्रह्मलोकफलप्रदम्
आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम् शक्रलोके वसेन्नित्यम् इन्द्रव्रतमिदं स्मृतम्
अनग्निपक्कम् अश्नाति तृतीयायां तु यो नरः गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम्
हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् ददत्कृतोपवासः स्याद् दिवि कल्पशतं वसेत् कल्पान्ते राजराजः स्याद् अश्वव्रतमिदं स्मृतम्
तद्वद्धेमरथं दद्यात् करिभ्यां संयुतं नरः सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम्
उपवासं परित्यज्य समान्ते गोप्रदो भवेत् यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम्
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् वारुणं लोकमाप्नोति वरुणव्रतमुच्यते
चान्द्रायणं च यः कुर्याद् धैमं चन्द्रं निवेदयेत् चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम्
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्
सकृद्वितानकं कुर्यात् तृतीयायां शिवालये समान्ते धेनुदो याति भवानीव्रतमुच्यते
माघे निश्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम्
त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम् आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्
त्रिसंध्यं पूज्य दाम्पत्यम् उपवासी विभूषणैः अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह
दत्त्वा सितद्वितीयायाम् इन्दोर्लवणभाजनम् समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् कल्पान्ते राजराजः स्यात् सोमव्रतमिदं स्मृतम्
प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः वैश्वानरपदं याति शिवव्रतमिदं स्मृतम्
दशम्याम् एकभक्ताशी समान्ते दशधेनुदः दिशश्च काञ्चनैर्दद्याद् ब्रह्माण्डाधिपतिर्भवेत् एतद् विश्वव्रतं नाम महापातकनाशनम्
यः पठेच्छृणुयाद्वापि व्रतषष्टिम् अनुत्तमाम् मन्वन्तरशतं सो ऽपि गन्धर्वाधिपतिर्भवेत्
षष्टिव्रतं नारद पुण्यमेतत् तवोदितं विश्वजनीनमन्यत् श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयम् अस्ति
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् तीर्थं च कल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् नमो नारायणायेति मूलमन्त्र उदाहृतः
दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः प्रकल्प्यावाहयेद् गङ्गाम् एभिर्मन्त्रैर्विचक्षणः
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता पाहि नस् त्वेनसस् तस्माद् आजन्ममरणान्तिकात्
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुरब्रवीत् दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि