मासोपवासी यो दद्याद् धेनुं विप्राय शोभनाम् स वैष्णवं पदं यति भीमव्रतमिदं स्मृतम्
दद्याद् विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम् दिनं पयोव्रतस्तिष्ठेद् रुद्रलोके महीयते धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम्
माघे मासे ऽथवा चैत्रे गुडधेनुप्रदो भवेत् गुडव्रतस्तृतीयायां गौरीलोके महीयते महाव्रतमिदं नाम परमानन्दकारकम्
पक्षोपवासी यो दद्याद् विप्राय कपिलाद्वयम् ब्रह्मलोकमवाप्नोति देवासुरसुपूजितम् कल्पान्ते राजराजः स्यात् प्रभाव्रतमिदं स्मृतम्
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्
नक्ताशी चाष्टमीषु स्याद् वत्सरान्ते च धेनुदः पौरंदरं पुरं याति सुगतिव्रतमुच्यते
विप्रायेन्धनदो यस्तु वर्षादिचतुरस्त्वृतून् घृतधेनुप्रदो ऽन्ते च स परं ब्रह्म गच्छति वैश्वानरव्रतं नाम सर्वपापविनाशनम्
एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत् समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात् एतत् कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत्
पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम् लक्ष्मीलोकमवाप्नोति ह्य् एतद् देवीव्रतं स्मृतम्
सप्तम्यां नक्तभुग्दद्यात् समान्ते गां पयस्विनीम् सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्
चतुर्थ्यां नक्तभुग्दद्याद् अब्दान्ते हेमवारणम् व्रतं वैनायकं नाम शिवलोकफलप्रदम्
महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये हैमानि कार्त्तिके दद्याद् गोयुगेन समन्वितम् एतत् फलव्रतं नाम विष्णुलोकफलप्रदम्
यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् गाश्च वै शक्तितो दद्याद् धेमान्नघटसंयुताः एतत् सौरव्रतं नाम सूर्यलोकफलप्रदम्
द्वादश द्वादशीर्यस्तु समाप्योपोषणेन च गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्छक्तितो नरः परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम्
कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम्
कृच्छ्रान्ते गोप्रदः कुर्याद् भोजनं शक्तितः पदम् विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम्
चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम्
सप्तरात्रोषितो दद्याद् घृतकुम्भं द्विजातये घृतव्रतमिदं प्राहुर् ब्रह्मलोकफलप्रदम्
आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम् शक्रलोके वसेन्नित्यम् इन्द्रव्रतमिदं स्मृतम्
अनग्निपक्कम् अश्नाति तृतीयायां तु यो नरः गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम्
हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् ददत्कृतोपवासः स्याद् दिवि कल्पशतं वसेत् कल्पान्ते राजराजः स्याद् अश्वव्रतमिदं स्मृतम्
तद्वद्धेमरथं दद्यात् करिभ्यां संयुतं नरः सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम्
उपवासं परित्यज्य समान्ते गोप्रदो भवेत् यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम्
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् वारुणं लोकमाप्नोति वरुणव्रतमुच्यते
चान्द्रायणं च यः कुर्याद् धैमं चन्द्रं निवेदयेत् चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम्
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्
सकृद्वितानकं कुर्यात् तृतीयायां शिवालये समान्ते धेनुदो याति भवानीव्रतमुच्यते
माघे निश्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम्
त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम् आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्
त्रिसंध्यं पूज्य दाम्पत्यम् उपवासी विभूषणैः अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह