कृत्वोपलेपनं शम्भोर् अग्रतः केशवस्य च यावदब्दं पुनर्दद्याद् धेनुं जलघटान्विताम्
जन्मायुतं स राजा स्यात् ततः शिवपुरं व्रजेत् एतद् आयुर्व्रतं नाम सर्वकामप्रदायकम्
अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः एकभक्तं नरः कुर्याद् अब्दमेकं विमत्सरः
व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् वृक्षं हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेत् एतत् कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम्
घृतेन स्नपनं कुर्याच् छम्भोर् वा केशवस्य च अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलम्
तिलधेनुसमोपेतं समान्ते हेमपङ्कजम् शुद्धमष्टाङ्गुलं दद्याच् छिवलोके महीयते सामगाय ततश्चैतत् सामव्रतमिहोच्यते
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः भोजयित्वासनं दद्याद् धैमकञ्चुकवाससी
हैमं सिंहं च विप्राय दत्त्वा शिवपदं व्रजेत् जन्मार्बुदं सुरूपः स्याच् छत्रुभिश्चापराजितः एतद्वीरव्रतं नाम नारीणां च सुखप्रदम्
यावत्समा भवेद्यस्तु पञ्चदश्यां पयोव्रतः समान्ते श्राद्धकृद्दद्यात् पञ्च गास्तु पयस्विनीः
वासांसि च पिशङ्गानि जलकुम्भयुतानि च स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् कल्पान्ते राजराजः स्यात् पितृव्रतम् इदं स्मृतम्
चैत्रादिचतुरो मासाञ् जलं दद्यादयाचितम् व्रतान्ते मणिकं दद्याद् अन्नवस्त्रसमन्वितम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते कल्पान्ते भूपतिर्नूनम् आनन्दव्रतमुच्यते
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः वत्सरान्ते पुनर्दद्याद् धेनुं पञ्चामृतेन हि
विप्राय दद्याच्छङ्खं च स पदं याति शांकरम् राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम्
वर्जयित्वा पुमान्मांसम् अब्दान्ते गोप्रदो भवेत् तद्वद्धेममृगं दद्यात् सोऽश्वमेधफलं लभेत् अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत्
माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत् भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणः सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्
आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः विप्रेषु भोजनं दद्यात् कार्त्तिक्यां गोप्रदो भवेत् स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम्
अयनादयनं यावद् वर्जयेत्पुष्पसर्पिषी तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु
दत्त्वा शिवपदं गच्छेद् विप्राय घृतपायसम् एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्
संध्यादीपप्रदो यस्तु समां तैलं विवर्जयेत् समान्ते दीपिकां दद्याच् चक्रशूले च काञ्चने
वस्त्रयुग्मं च विप्राय तेजस्वी स भवेदिह रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्
कार्त्तिक्यादितृतीयायां प्राश्य गोमूत्रयावकम् नक्तं चरेदब्दमेकम् अब्दान्ते गोप्रदो भवेत्
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्
वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम् शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्
वैशाखे पुष्पलवणं वर्जयित्वाथ गोप्रदः भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह एतत्कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम्
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम् त्र्यहं तिलप्रदो भूत्वा वह्निं संतर्प्य सद्विजम्
सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति
पुण्ये ऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् एतद्ब्रह्मव्रतं नाम निर्वाणपददायकम्
यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् दिनं पयोव्रतस्तिष्ठेत् स याति परमं पदम् एतद्धेनुव्रतं नाम पुनरावृत्तिदुर्लभम्
त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्पपादपम् पलादूर्ध्वं यथाशक्त्या तण्डुलैस् तूपसंयुतम् दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम्