ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु वस्त्रालंकारसंयुक्ता गावश्च करकान्विताः
भोजनं च सुहृन्मित्रदीनान्धकृपणैः समम् तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम्
स भवांल् लुब्धको जातः सपत्नीको नृपेश्वरः पुष्करप्रकरात्तस्मात् केशवस्य न पूजनात्
विनष्टाशेषपापस्य तव पुष्करमन्दिरम् तस्य सत्त्वस्य माहात्म्याद् अल्पेन तपसा नृप
यथाकामगमं जातं लोकनाथश्चतुर्मुखः संतुष्टस्तव राजेन्द्र ब्रह्मरूपी जनार्दनः
साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम् पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता लोकेष्वानन्दजननी सकलामरपूजिता
तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम् कुरु राजेन्द्र निर्वाणम् अवश्यं समवाप्स्यसि
इत्युक्त्वा स मुनिर् ब्रह्मंस् तत्रैवान्तरधीयत राजा यथोक्तं च पुनर् अकरोत्पुष्पवाहनः
इदमाचरतो ब्रह्मन्न् अखण्डव्रतम् आचरेत् यथाकथंचित् कमलैर् द्वादश द्वादशीर् मुने
कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणानघ न वित्तशाठ्यं कुर्वीत भक्त्या तुष्यति केशवः
अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम् रुद्रेणाभिहितां दिव्यां महापातकनाशनम्
नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी
शिवरूपस्ततो ऽस्माभिः शिवलोके स मोदते एतद्देवव्रतं नाम महापातकनाशनम्
यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम् धेनुं तिलमयीं दद्यात् स पदं याति शांकरम् एतद्रुद्रव्रतं नाम पापशोकविनाशनम्
यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् एकान्तरितनक्ताशी समान्ते वृषसंयुतम् स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम्
आषाढादिचतुर्मासम् अभ्यङ्गं वर्जयेन्नरः भोजनोपस्करं दद्यात् स याति भवनं हरेः जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम्
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति एतद्गौरीव्रतं नाम भवानीलोकदायकम्
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः अशोकं काञ्चनं दद्याद् इक्षुयुक्तं दशाङ्गुलम्
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः एतत् कामव्रतं नाम सदा शोकविनाशनम्
आषाढादिव्रतं यस्तु वर्जयेन्नखकर्तनम् वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम्
कार्त्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्
वर्जयेद्यस्तु पुष्पाणि हेमन्तशिशिरावृतू पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम्
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ दत्त्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्
फाल्गुन्यादितृतीयायां लवणं यस्तु वर्जयेत् समाप्ते शयनं दद्याद् गृहं चोपस्करान्वितम्
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते
संध्यामौनं ततः कृत्वा समान्ते घृतकुम्भकम् वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत्
सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् एतत्सारस्वतं नाम रूपविद्याप्रदायकम्
लक्ष्मीमभ्यर्च्य पञ्चम्याम् उपवासी भवेन्नरः समान्ते हेमकमलं दद्याद्धेनुसमन्वितम्
स वैष्णवं पदं याति लक्ष्मीवाञ्जन्मजन्मनि एतत् सम्पद्व्रतं नाम सदा पापविनाशनम्