सभार्यस्तत्र गतवान् यत्रासौ मङ्गलध्वनिः तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता
वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् समाप्तौ माघमासस्य लवणाचलमुत्तमम्
निवेदयन्ती गुरवे शय्यां चोपस्करान्विताम् अलंकृत्य हृषीकेशं सौवर्णामरपादपम्
तां तु दृष्ट्वा ततस्ताभ्याम् इदं च परिचिन्तितम् किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः
इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलम् शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः
अथानङ्गवती तुष्टा तयोर्धनशतत्रयम् दीयतामादिदेशाथ कलधौतशतत्रयम्
न गृहीतं ततस्ताभ्यां बहुसत्त्वावलम्बनात् अनङ्गवत्या च पुनस् तयोरन्नं चतुर्विधम् आनीय व्याहृतं चात्र भुज्यतामिति भूपते
ताभ्यां तु तदपि त्यक्तं भोक्ष्यावो वै वरानने प्रसङ्गादुपवासेन तवाद्य सुखमावयोः
जन्मप्रभृति पापिष्ठौ कुकर्माणौ दृढव्रते तत्प्रसङ्गात्तयोर्मध्ये धर्मलेशस्तु ते ऽनघ
इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितम् प्रभाते च तदा दत्ता शय्या सलवणाचला
ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु वस्त्रालंकारसंयुक्ता गावश्च करकान्विताः
भोजनं च सुहृन्मित्रदीनान्धकृपणैः समम् तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम्
स भवांल् लुब्धको जातः सपत्नीको नृपेश्वरः पुष्करप्रकरात्तस्मात् केशवस्य न पूजनात्
विनष्टाशेषपापस्य तव पुष्करमन्दिरम् तस्य सत्त्वस्य माहात्म्याद् अल्पेन तपसा नृप
यथाकामगमं जातं लोकनाथश्चतुर्मुखः संतुष्टस्तव राजेन्द्र ब्रह्मरूपी जनार्दनः
साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम् पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता लोकेष्वानन्दजननी सकलामरपूजिता
तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम् कुरु राजेन्द्र निर्वाणम् अवश्यं समवाप्स्यसि
इत्युक्त्वा स मुनिर् ब्रह्मंस् तत्रैवान्तरधीयत राजा यथोक्तं च पुनर् अकरोत्पुष्पवाहनः
इदमाचरतो ब्रह्मन्न् अखण्डव्रतम् आचरेत् यथाकथंचित् कमलैर् द्वादश द्वादशीर् मुने
कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणानघ न वित्तशाठ्यं कुर्वीत भक्त्या तुष्यति केशवः
अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम् रुद्रेणाभिहितां दिव्यां महापातकनाशनम्
नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी
शिवरूपस्ततो ऽस्माभिः शिवलोके स मोदते एतद्देवव्रतं नाम महापातकनाशनम्
यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम् धेनुं तिलमयीं दद्यात् स पदं याति शांकरम् एतद्रुद्रव्रतं नाम पापशोकविनाशनम्
यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् एकान्तरितनक्ताशी समान्ते वृषसंयुतम् स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम्
आषाढादिचतुर्मासम् अभ्यङ्गं वर्जयेन्नरः भोजनोपस्करं दद्यात् स याति भवनं हरेः जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम्
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति एतद्गौरीव्रतं नाम भवानीलोकदायकम्
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः अशोकं काञ्चनं दद्याद् इक्षुयुक्तं दशाङ्गुलम्
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः एतत् कामव्रतं नाम सदा शोकविनाशनम्