माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः श्रीधराय मुखं केशान् केशवायेति नारद
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये शिरः सर्वात्मने ब्रह्मन् नम इत्यभिपूजयेत्
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः उदकुम्भसमायुक्तम् अग्रतः स्थापयेद्बुधः
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् रात्रौ जागरणं कुर्याद् इतिहासकथादिना
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत्
यथा न मुच्यसे देव सदा सर्वविभूतिभिः तथा मामुद्धराशेषदुःखसंसारकर्दमात्
दशावताररूपाणि प्रतिमासं क्रमान्मुने दत्तात्रेयं तथा व्यासम् उत्पलेन समन्वितम् दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत्
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः संवत्सरान्ते लवणपर्वतेन समन्विताम् शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम्
ग्रामं च शक्तिमान्दद्यात् क्षेत्रं वा भवनान्वितम् गुरुं सम्पूज्य विधिवद् वस्त्रालंकारभूषणैः
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत्
यश्चाप्यतीव निःस्वः स्याद् भक्तिमान्माधवं प्रति पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम्
अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम्
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् तावत्स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत्
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः नाम्ना लोकेषु विख्यातस् तेजसा सूर्यसंनिभः
तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद कमलं काञ्चनं दत्तं यथाकामगमं मुने
लोकैः समस्तैर् नगरवासिभिः सहितो नृपः द्वीपानि सुरलोकं च यथेष्टं व्यचरत्तदा
कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते
देवेन ब्रह्मणा दत्तं यानमस्य यतो ऽम्बुजम् पुष्पवाहनमित्याहुस् तस्मात्तं देवदानवाः
नागम्यमस्यास्ति जगत्त्रये ऽपि ब्रह्माम्बुजस्थस्य तपो ऽनुभावात् पत्नी च तस्याप्रतिमा मुनीन्द्र नारीसहस्रैरभितो ऽभिनन्द्या नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य
तस्यात्मजानामयुतं बभूव धर्मात्मनाम् अग्र्यधनुर्धराणाम् तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर् विस्मयमाससाद सो ऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं बभाषे
कस्माद्विभूतिर् अमलामरमर्त्यपूज्या जाता च सर्वविजितामरसुन्दरीणाम् भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानाम् नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस् तारागणैरिव गतः परितः स्फुरद्भिः
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः भगवन्मयाथ तनयैर् अथवानयापि भद्रं यदेतदखिलं कथय प्रचेतः
मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् जन्माभवत्तव तु लुब्धकुले ऽतिघोरे जातस्त्वमप्यनुदिनं किल पापकारी
वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर् दुर्गन्धिसत्त्वभुजगावरणं समन्तात् न च ते सुहृन् न सुतबन्धुजनो न तातस् त्व् आदृक्स्वसा न जननी च तदाभिशस्ता
अभिसंगता परमभीष्टतमा विमुखी महीश तव योषिदियम् अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन् क्षुत्पीडितेनाथ तदा न किंचिद् आसादितं धान्यफलामिषाद्यम्
अथाभिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिशनामधेयम्
तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषम् अहस् तदासीत् क्रेता न कश्चित्कमलेषु जातः श्रान्तो भृशं क्षुत्परिपीडितश्च
उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे अथ मङ्गलशब्दश्च त्वया रात्रौ महाञ्श्रुतः